________________
पञ्चमः पल्लवः ]
विपरीतशिक्षितोऽश्वः, सोऽचलत् प्राक् शनैः शनैः । राज्ञाऽचिन्ति विना वेगं भव्येनानेन किं फलम् ? ॥ ५२७॥ विचिन्त्यैवं क्रुधा राज्ञा, वल्गा मुक्ता कराद् यदा । तावदुच्छलितो वाजी, वायुवेगाच्चचाल च ॥ ५२८ ॥ काञ्चिन्महीं व्यतिक्रम्य, भीमाटव्यां स तस्थिवान् । मुक्त्वा हयं श्रमाद्भूपः, सुप्तो वृक्षतले ततः ॥ ५२९॥ तावद् व्योमनि गच्छन्त्या, वनदेवतया कया । तत्रागत्य जटीखण्डं, बबन्धे नृपमस्तके ॥ ५३०|| तत्प्रभावेण भूपस्य, जातं श्यामतरं वपुः । क्षणाज्जागरितो राजा, स्वं कृष्णाङ्गं व्यलोकयत् ॥५३१॥ गतालङ्कारसद्वस्त्र, श्यामं वीक्ष्य वपुर्नृपः । विस्मितश्चिन्तयामास, किमिदं जातमीदृशम् ? ॥ ५३२॥ एकाकिनो वनस्थस्य, दुःखिनो मे इदं पुनः ।
ज्वरे हिक्का क्षते क्षारो, दग्धोर्ध्वं स्फोटकस्तथा ॥५३३॥ एतस्मिन् समये तत्र, पृष्ठे सैन्यं समागतम् । तं कृष्णं वीक्ष्य पल्लीशधिया पृष्टं च तद्भटैः ॥५३४|| रे पल्लीश ! त्वया दृष्टो, जन्मेजयनृपोऽधुना । नृपेणोक्तमरे मूढा !, मां न जानीथ स न्वहम् ॥५३५॥ तैरुक्तं त्वं कथं कृष्णोऽलङ्कारस्तर्हि ते क्व च ? । राजोचे विपरीतं मे, सर्वं कर्म्मवशादभूत् ॥५३६॥ श्रुत्वैवं सैनिकाः प्रोचुस्त्वयेदं किं प्रजल्पितम् ? । अस्माकं प्रभुरीदृक्षः, कथं भवति रे शठ ! ॥ ५३७|| इत्युक्त्वा च हयं नीत्वा, ते गताः स्वपुरं प्रति । विच्छायवदनो भूपश्चचालैकदिशं प्रति ॥५३८॥ कियद्दूरं गते तस्मिन्नागतास्तापसाश्रमाः । तापसैस्तस्य चातिथ्यं कृतं संवीक्ष्य तद्गुणान् ॥५३९॥
[ २०७
5
10
15
20
25