________________
६
10
[धर्मकल्पद्रुमः एवं चामारियात्रादि, पुण्यं राज्ञि प्रकुर्वति । सूरिः सुमतिसेनाह्वः, केवल्यागात् पुरेऽन्यदा ॥५१४॥ श्रीसूरिमागतं श्रुत्वा, राजा हर्षप्रपूरितः । परिवारेण संयुक्तो, वन्दितुं गतवान्वने ॥५१५।। गुरुं नत्वा यथास्थाननमुपविष्टो धराधिपः । प्रारेभे देशनां सूरिभव्याम्भोरुहबोधदाम् ।।५१६।। अहो संसारवासेऽस्मिन् , जन्तवो जन्मकोटिषु ।
उत्पद्यन्ते, विपद्यन्ते लभन्ते न सुखं क्वचित् ॥५१७॥ यतः- चला विभूतिः क्षणभङ्गयौवनं, कृतान्तदन्तान्तरवति जीवितम् ।
तथाप्यवज्ञा परलोकसाधने, अहो नृणां विस्मयकारि चेष्टितम् ॥५१८॥ यत्नेन पापानि समाचरन्ति, पुण्यं प्रसङ्गादपि नाचरन्ति । आश्चर्यमेतच्च मनुष्यलोके, क्षीरं परित्यज्य विषं पिबन्ति ॥५१९॥ पुनः प्रभातं पुनरेव शर्वरी, पुनः शशाङ्कः पुनरुद्गतो रविः । कालस्य किंगच्छति याति जीवितं, तथापि लोकः स्वहितं न बुध्यति ॥५२०॥ सुधियः स्वहितायैव, सेवन्ते सुकृतं वरम् । दानशीलतपोभावभेदैरेव चतुर्विधम् ॥५२१॥ वित्ततो दीयते दानं, शीलं चित्तसमुद्भवम् । दुष्करं तं न मुञ्चन्ति, ते जनाः स्वर्गगामिनः ॥५२२॥ प्राणात्ययेऽपि ये शीलं, न त्यजन्ति विवेकिनः । निर्वृतिं रत्नमालावत् , तत्प्रभावात् प्रयान्ति ते ॥५२३॥ नृपोऽपृच्छत् प्रभो ! काऽसो, रत्नमालावराङ्गना ।
पालितं विषमं शीलं, यया तस्याः कथां वद ॥५२४।। तथाहि- गुरुरूचेऽत्र भरते, पृथ्वीभूषणपत्तने ।
जन्मेजयाभिधो राजा, राज्यं न्यायादपालयत् ॥५२५।। अन्यदाऽन्येन राज्ञाऽस्य, प्रेषितो वाजिपुङ्गवः । परीक्षार्थं स्वयं राजा, तं समारोहयद्धयम् ॥५२६।।
15
25