________________
पञ्चमः पल्लवः ]
शृङ्गारसुन्दरी चाद्या, द्वितीया रत्नवत्यपि । पत्रवल्ली मोहवल्ली, ततः सौभाग्यमञ्जरी ||५०१ ॥ देवसेना च गन्धर्वसेना कनकमञ्जरी । गुणमञ्जरी चैतास्ता, नामभिर्नव कीर्त्तिताः ॥५०२|| नवैता निधय इव, साक्षात् पूर्व्वभवप्रियाः । तथा त्रिंशत्सहस्राणि राज्ञो राज्ञ्योऽभवन् पराः ||५०३ || षट्त्रिंशत्कोटयो ग्रामाः, पत्तयः षष्टिकोटयः । त्रिशल्लक्षाश्च प्रत्येकं, रथनागेन्द्रवाजिनाम् ॥५०४॥ पत्तनद्वीपदुर्गाणां, वेलाकूलकरीटिनाम् । कर्बटखेटद्रोणानां सहस्रा विंशतिर्मताः ||५०५ ॥ युग्मम् ॥ हेमाङ्गदादयो विद्याधरेशाश्च सहस्रशः । सेवाञ्च चक्रिरे तस्य, नित्यं सद्भक्तियुक्तिभिः ||५०६ || स नित्यं कोटिसङ्ख्यस्य, कनकस्य व्ययं व्यधात् । ददौ च परिवाराय, वस्त्राण्याभरणानि च ॥ ५०७|| कुम्पकस्थरसात् तस्य, सम्पद्येत धनं बहु । रसप्रभावतो राज्ये, न दुर्भिक्षं न डामरम् ||५०८|| व्याधयो नेतयो नैव, न दौःस्थ्यं नैव पीडनम् । सुखेन गमयामास, कालं सर्व्वजनोऽपि च ॥ ५०९|| देवेन्द्रवन्नरेन्द्रोऽपि, दिव्यभोगान् बुभोज सः । एकच्छत्रमयं राज्यं, चक्रे च चक्रवर्त्तिवत् ॥५१०॥ एवं गतानि वर्षाणि, दश लक्षाणि भूभुजः । शतसङ्ख्यसुता जाता, गृहस्थद्रुमसत्फलाः ॥५११॥ नामतस्तेऽभवन् पुत्रा, मेघहेमरथादयः । शुभलक्षणसम्पूर्णा, सर्व्वावयवसुन्दराः ॥५१२॥ सुरूपाः सुभगाः सौम्याः सर्वविद्याविशारदाः । सम्प्राप्तयौवनाः सर्व्वे, कृतपाणिग्रहोत्सवाः ॥ ५१३॥
[ २०५
5
10
15
20
25