________________
२४ा
[धर्मकल्पद्रुमः राजोचे शृणु हे शक्ते !, तव भक्तिकृते मया । मम पुत्रोऽत्र मुक्तोऽस्ति, पालनीयः प्रयत्नतः ॥४८९।। सारा कार्या त्वया देवी, तस्य राज्ञो दिवानिशम् । पूजयिष्यति सोऽपि त्वां, सेवकस्ते भविष्यति ॥४९०॥ अन्यच्चैकं विमानं त्वं, नवीनं कुरु मत्कृते । यत्रारूढो नभोमार्गे, स्वपुरे यामि लीलया ॥४९१।। देवी प्रोचे भवत्सूनोश्चिन्ताऽस्ति मम मानसे । एवमुक्त्वा विमानञ्च, कृत्वा दत्त्वा गता सुरी ॥४९२॥ अनुज्ञाप्य ततो लोकान् , पुत्रादीन् स्वजनानपि । राजा विमानमारुह्य, चचाल स्वपुरं प्रति ॥४९३।। गजाश्वरथपत्त्यादि, सैन्यं पृष्ठेऽचलद्भुवि ।। तदा विचित्रवादित्रध्वनिभिः पूरितं नभः ॥४९४|| महीशो महान् रत्नपालाभिधानः, खमार्गे व्रजन् दिव्यराजद्विमानः । नरैः खेचरैः भक्तितः स्तूयमानस्तदा शोभते देवतावत् प्रधानः ॥४९५॥ ततः शीघ्रं गतो राजा, विमानस्थः पुरे निजे । लोकाः प्रमुदिताः सर्वे, चिराद्भूपागमे सति ॥४९६।। मन्त्र्याद्याः सम्मुखा जग्मुः, पतिता नृपपादयोः । राज्ञीद्वयान्वितो राजा, प्रविवेशोत्सवात् पुरम् ॥४९७।। गृहे गृहे स्म गायन्ति, सुशृङ्गारास्तदाऽङ्गनाः । राज्ञो वर्धापनं चक्रुः, पौराः प्राभृतपूर्वकम् ॥४९८।। निष्कण्टकं निरातङ्घ, राज्यं प्राज्यं करोत्यसौ । पुण्यमपि च पुण्यात्मा, विदधाति दिवानिशम् ॥४९९॥ एवं विवाहसम्बन्धा, यासामत्र प्रकीर्तिताः ।
महिष्यो नव मुख्यास्तास्तस्य राज्ञोऽभवन्निमाः ॥५००। १. भूचरैः इति वा पाठः ।