________________
10
पञ्चमः पल्लवः]
[२०३ काव्यम्- हस्ती स्थूलतनुः स चाङ्कुशवशः किं हस्तिमात्रोऽङ्कशो ?,
वज्रेणाभिहताः पतन्ति गिरयः किं वज्रमात्रो गिरिः ? । दीपे प्रज्वलिते प्रणस्यति तमः किं दीपमात्र तमस्तेजो यस्य विराजते स बलवान् स्थूलेषु कः प्रत्ययः ? ॥४७७॥ लघुस्थूलेषु देहेषु , कः प्रयोगः प्रवर्त्तते । कलिङ्गफलमुत्तुङ्ग, मरिचं हि चमत्कृतम् ॥४७८॥ भूयोऽपि श्रूयतां वृद्धैर्भवद्भिः परिवारितः ।
बालोऽप्यसौ सुपक्षः सन् , भविष्यति गुणाग्रणीः ॥४७९॥ यतः- सुपक्षो लभते लक्षं, गुणहीनोऽपि मार्गणः ।
पक्षहीनो विलक्षोऽथ, मार्गणो गुणपूरितः ॥४८०॥ सुपक्षो भक्षते काको, वृक्षस्थो विविधं फलम् । दूरस्थोऽपि निरीक्षेत, विना पक्षस्तु केसरी ॥४८१॥ एवमाख्याय दृष्टान्ताननुमत्या च मन्त्रिणाम् । राज्ये संस्थापयामास, मुहूर्ते निजनन्दनम् ॥४८२।। महानन्दपुरे रम्ये, राजाऽभूत् सिंहविक्रमः । एवमुद्घोषणां तत्र, कारयामास भूपतिः ॥४८३।। नवे राज्ञि कृते राज्यस्थितिः काचिन्न वा भवेत् । महानन्देति नामातो, नवं रत्नपुरं कृतम् ॥४८४॥ मूलप्रधानमुख्यानां, शिक्षामेवं नृपो ददौ । राज्यरक्षा सदा कार्या, कार्या चिन्ता सुतस्य मे ॥४८५।। सुसेव्यो लघुरप्येष, धार्याज्ञा सर्वदाऽस्य च । अहं पक्षं करिष्यामि, निजस्थाने गतोऽपि सन् ॥४८६।। एवं हि बहुधालाप्य, वस्त्राभरणदानतः । सन्तोष्य राजवर्गं तं, प्रीणिताश्च प्रजा अपि ॥४८७।। पुनः स्मृताऽथ सा देवी, ययाऽऽनीतः स बेडया । प्रत्यक्षीभूय साऽप्यूचे, किं स्मृताऽहं त्वया नृप ॥४८८।।