________________
[धर्मकल्पद्रुमः बालराज्यं भवेद्यत्र, द्विराज्यं यत्र वा भवेत् । स्त्रीराज्यं मूर्खराज्यञ्च, यत्र स्यात् तत्र नो वसेत् ॥४६४॥ सा किं सभा यत्र न सन्ति वृद्धा, वृद्धा न ते य न वदन्ति धर्मम् । धर्मः स नो यत्र न चैव सत्यं, सत्यं हि तद्यत्र परस्य रक्षा ॥४६५॥ दानं प्रजापरित्राणं, न्यायोऽर्थो जनरञ्जनम् । राज्यकल्पद्रुमस्यैता, विपुलाः फलसम्पदः ॥४६६॥ कुलशीलगुणोपेतं, सत्यधर्मपरायणम् । रूपिणं सुप्रसन्नं च, राज्याध्यक्षं तु कारयेत् ॥४६७॥ प्राज्ञे नियोजितेऽमात्ये, त्रयो गुणा महीपतेः । यशः स्वर्गनिवासश्च, पुष्कलश्च धनागमः ॥४६८॥ कृतेष्वमात्येषु पुरातनेषु , चिरं स्थिरा राजति राज्यलक्ष्मीः । यतः शरावेषु नवेषु वारि, न्यस्तं समस्तं विलयं प्रयाति ॥४६९॥ मूर्खे नियोजितेऽमात्ये, त्रयो दोषा महीपतेः । अयशः स्वार्थनाशश्च, नरके पतनं ध्रुवम् ॥४७०॥ क्रमागतः शुचिर्भीरः, सर्वरत्नपरीक्षकः । सुधी रक्षोऽभिचारी च, कोशाध्यक्षो विधीयते ॥४७१॥ इङ्गिताकारतत्त्वज्ञः, प्रियवाक् प्रियदर्शनः । सकृदुक्तग्रही दक्षः, प्रतिहारः प्रशस्यते ॥४७२॥ मेधावी पटुवाग् दक्षः, परचित्तोपलक्षकः । धीरो यथाऽर्थवादी च, दूतः स्यात् सप्तभिर्गुणैः ॥४७३॥ धर्मशास्त्रार्थकुशलाः, कुलीना सत्यवादिनः । समाः शत्रौ च मित्रे च, नृपतेः स्युः सभासदः ॥४७४॥ राज्यस्थितिमिमां राजन् ! विचारज्ञ ! विचारय । बालोऽयं ते सुतः स्वामिन् !, राज्यभारे कथं क्षम: ? ॥४७५॥ राजोचे श्रूयतां सभ्या, भवद्भिः किं प्रजल्पितम् ? । जनोक्ति किं न जानीथ, लघुस्थूलेषु को गुणः ? ॥४७६।।
१. अक्षोभचारी च इति वा पाठः । २. संख्यासप्तकं न मिलति षडेव गणा दर्शिताः ।