________________
[धर्मकल्पद्रुमः तदा तु रत्नपालेन, कृतो दीक्षोत्सवो महान् । पुण्यप्रभावकः सोऽपि, सञ्जातः श्रावकोत्तमः ॥४३९॥ राजर्षिश्रीमहासेनयुक्तः शय्यम्भवो गुरुः । विजहार महीपीठे, रत्नपालोऽप्यगात् पुरम् ॥४४०॥ अमारीघोषणापूर्वं, दिनान्यष्टौ ततो नृपः । जिनालयेषु नृत्यादिमहोत्सवमकारयत् ॥४४१।। वरं वृणीध्वमित्यादिशब्दोच्चारणपूर्वकम् । ददौ राजा ततो दानं, दानमण्डपमाश्रितः ॥४४२।। दानात् सञ्जायते कीर्तिरतिर्नश्यति दानतः ।
दानं सम्पन्निदानञ्च, दानं देयमतो बुधैः ॥४४३॥ यतः- सङ्ग्रहैकपरः प्राप, समुद्रोऽपि रसातलम् ।
दाता तु जलदः पश्य, भुवनोपरि गजति ॥४४४॥ शुभेऽह्नि रत्नपालस्य, मिलित्वाऽन्यनृपादिभिः । भूयः पट्टाभिषेकोऽथ, विदधे विविधोत्सवैः ॥४४५।। सीमाधिपा नृपास्तेन, कृता नमितकन्धराः । गजादिसारवस्तूनि, लात्वा तस्य डुढौकिरे ॥४४६।। स भक्तसेवकामात्यैः, संसेवितपदाम्बुजः ।।
न्यायेन पालयामास, राज्यं राजगुणान्वितः ॥४४७।। यतः- शत्रूणां तपनः सदैव सुहृदामानन्दनश्चन्द्रवत्
पात्रापात्रपरीक्षणे सुरगुरुद्दीनेषु कर्णोपमः । नीतौ रामनिभो युधिष्ठिरसमः सत्ये श्रिया श्रीपतिः, स्वीये सत्यपि पक्षपातसुभगः स्वामी यथार्थो भवेत् ॥४४८॥ क्षमी दाता गुणग्राही, स्वामी दुःखेन लभ्यते । अनुरक्तः शुचिर्दक्षो, विभो त्योऽपि दुर्लभः ॥४४९॥ नाकालमृत्युर्न व्याधिर्न दुर्भिक्षं न तस्कराः । भवन्ति सत्त्वसंपन्ने, धर्मनिष्ठे महीपतौ ॥४५०॥
25