________________
पञ्चमः पल्लव:]
[१९९
काव्यम्- आसाद्य मानुष्यमथार्यदेशं, जाति प्रशस्यां कुलमुत्तमञ्च ।
रात्रिन्दिवा पुण्यमहो भजस्व, तस्योदयात् सर्वमनीषितं स्यात् ॥४२८॥ काव्यम्- सूत्रार्थी रत्नमालां दलति दहति वा चन्दनं भस्महेतो
र्नावं चाब्धौ भिनत्ति स्वहितविरहितो लोहकीलं जिघृक्षुः । प्राप्यक्षय्यं निधिं वा त्यजति जडमतिर्नित्यभिक्षाभिलाषी,
5 सद्धर्मं यो न कुर्यादसुलभनृभवं प्राप्य कृच्छ्रात्सुखैषी ॥४२९॥ अस्मिन्नपारसंसारसागरे दुस्तरेऽपि च । लघुका तरत्येव, परो ब्रुडति लोष्टवत् ॥४३०॥ यथा पोतप्रयोगेण, सागरस्यावगाहनात् । दुर्लभान्यपि वस्तूनि, नीयन्ते पोतवाहकैः ॥४३१॥ तथा गुरूपदेशेन, संसारस्यावगाहनात् । धर्मरत्नं हि दुष्प्रापं, प्राप्यते भव्यजन्तुभिः ॥४३२॥ सम्प्राप्य भवपाथोधौ, बोधिरत्नं सुदुर्लभम् । रक्षणीयं प्रयत्नेन, यथा हरति कोऽपि न ॥४३३॥ संयमार्थी नृपोऽप्यने, विशेषाद् गुरुवाक्यतः । प्रतिबुद्धो महासेनो, विधिना व्रतमग्रहीत् ॥४३४।। अथ ज्ञानगजारूढः, शीलसन्नाहभृत् दृढम् । गृहीतध्यानखड्गश्च, दधत्संवेगखेटकम् ॥४३५॥ गुर्वाज्ञाटोपकाटोपः, सकोपः क्रूरकर्मसु ।
चित्रं क्षमाधरः सोऽभून्मोहारिं जेतुमुत्सुकः ॥४३६॥ युग्मम् ॥ 20 यतः- संमोहक्षितिपस्य संसृतिवधूवैधव्यदीक्षा दिशन् ,
सैन्येनेव चतुर्विधेन गुरुणा सङ्घन दत्तोदयः, । गुर्लादेशनयातपत्रममलं बिभ्रत् शिरस्याभवं, प्रव्रज्याभिधया विधेहि महिमप्राज्यं स्वराज्यं चिरम् ॥४३७॥ महाव्रतानि पञ्चापि, पञ्चाचारान् विचारतः । गुप्तीस्तिस्रोऽपि पुण्यात्मा, पालयामास सोऽन्वहम् ॥४३८।।
15
25