________________
२]
[धर्मकल्पद्रुमः स्थाने स्थाने जनैः सर्वैर्विश्रामः पथि गृह्यते । दीयते च महादानमर्थिनामर्थसञ्चयैः ॥४१५।। लुञ्छनानि क्रियन्ते च, दुकूलैः स्वर्णनाणकैः । नृपपृष्ठस्थया स्वस्रोत्तार्यते लवणं तदा ॥४१६।। क्रियते बन्दिवृन्दैस्तु , विष्वग् जयजयारवः । गीतबन्धैस्तु गीयन्ते, गन्धर्वैर्भूपसद्गुणाः ॥४१७।। वादित्राणि विचित्राणि, वाद्यन्ते च निरन्तरम् । नृत्यन्ति वारनार्यश्च, भरतभावेषु कोविदाः ॥४१८॥ स्वस्ववेश्मगवाक्षस्था, योषितो भर्तृसंयुताः । मार्गस्था अपि काश्चिच्च, यान्तं पश्यन्ति तं नृपम् ॥४१९।। वर्धापयति काचिच्च, मौक्तिकैरक्षतैरपि । चिरं जीव चिरं नन्देत्याशिषो ददते स्त्रियः ॥४२०।। शृङ्गारिते पुरे तस्मिन् , हट्टादौ तोरणध्वजैः । पुष्पप्रकरसम्पूर्णे, मार्गे भूपो व्रजत्यसौ ॥४२१॥ इत्याद्यैरुत्सवैः सार्धं, नृपः सम्प्राप तद्वनम् । हयाद्रयात् समुत्तीर्य, प्रविवेश वनान्तरे ॥४२२॥ कृत्वा नैषेधिकी तत्र, दत्त्वा तिस्रः प्रदक्षिणाः । मौलिमूलेऽञ्जलि धृत्वा, ववन्दे तं गुरुं मुदा ॥४२३॥ त्यक्त्वा पञ्च प्रमादांश्च, विमुच्य मदमत्सरौ । रत्नपालयुतो भूपो, यथास्थानमुपाविशत् ॥४२४।। गुरुर्धर्माशिषं दत्त्वा, नृपादीनां च तत्पुरः । विवेकोद्योतदीपाभां, प्रारेभे धर्मदेशनाम् ॥४२५॥ भो भव्याः ! श्रूयतां सम्यगेतत्संसारचेष्टितम् ।
सर्षपेण समं सौख्यं, दुःखं मेरुसमं भवे ॥४२६॥ यथा- चला विभूतिर्ननु जीवितं चलं, विनश्वरं यौवनमप्यकालतः ।
इदं शरीरं बहुरोगमन्दिरं, विमृश्य चैवं कुरु धर्ममन्वहम् ॥४२७॥
20
25