________________
पञ्चमः पल्लवः]
[१९५ इत्युक्त्वा भूपतेः कण्ठे, सोत्कण्ठे ते उभे अपि । दक्षे चिक्षिपतुर्वेगाद्वरमाले उभे अपि ॥३७७।।। वर्धाप्य मौक्तिकैर्हस्तौ, संयोज्य च जजल्पतुः । त्वमावयोर्भवेऽमुष्मिन् , पतिरन्ये हि सोदराः ॥३७८।। त्वमेव शरणं स्वामिन्नस्माकं कोऽपि नापरः । विवाहार्थं विभो ! लोप्यं, नास्मत्पित्रोर्वचस्त्वया ॥३७९।। इत्युक्त्वा ते गते मध्ये, सिद्धे कार्येऽतिहर्षिते । ततोऽवादीन्महासेनो, विनीतस्तं नृपं प्रति ॥३८०॥ मदाग्रहेण मत्पुत्र्योस्त्वं पाणिग्रहणं कुरु । देव्यापि त्वं वरः प्रोक्तो, नान्यथा देवतावचः ॥३८१॥ सार्धं श्रीरत्नपालेन, विवाह: कन्ययोस्तयोः । महोत्सवशतैश्चक्रे, महासेनेन भूभुजा ॥३८२॥ समस्तमपि तद्राज्यमपुत्रत्वाद्विशेषतः ।
तदा नृपेण जामात्रे, प्रदत्तं करमोचने ॥३८३।। काव्यम्- अर्थोऽपि दत्तोऽथ सुवर्णमुख्यो, वराय तस्मै बहुकोटिसङ्ख्यः । 15
श्रीरत्नपालो नृपतिः सुपक्षो, विवाहितो भूपतिनेति दक्षः ॥३८४॥ अथ राजा धृतोत्साहः, स्माह जामातरं प्रति । त्वदायत्तमिदं वित्तं, भुज्यतां स्वेच्छया सदा ॥३८५।। रत्नपालोऽथ सौधस्थो, भयशङ्काविवर्जितः । तत्र पञ्चविधान् भोगान् , भुनक्ति स्म प्रियायुतः ॥३८६॥ महासेनो महीपालो, विवाद्यैतत्सुताद्वयम् । निश्चिन्तोऽथ सुखीभूतो, जातः सन्तोषवानपि ॥३८७।। रत्नपालविनीतत्वं, संवीक्ष्य मुदमुद्वहन् । आनन्दपेशलमना, अन्यदैवं तमब्रवीत् ॥३८८॥ मम तुर्यं वयो जातं, न जातो नन्दनस्तथा । प्रायो भवेदपुत्रस्य, परो लक्ष्मीपतिर्नरः ॥३८९॥
___ 25