________________
[धर्मकल्पद्रुमः इदं प्राग्जन्मजं पुण्यं, यज्जातस्तव सङ्गमः । उष्णमध्ये मया प्राप्तं, शीतं यत्तव दर्शनम् ॥३९०॥ अहं तु साम्प्रतं वृद्धः, सञ्जातः पक्वपर्णवत् । अस्मिन्नसारे संसारे, सारं सुकृतसाधनम् ॥३९१॥ कल्लोलचपला लक्ष्मीः, सङ्गमाः स्वप्नसन्निभाः । वात्याव्यतिकरोत्क्षिप्ततूलतुल्यञ्च यौवनम् ॥३९२॥ इत्थं ज्ञात्वा नरेन्द्राहं, विरतो राज्यभारतः । साधयामि परं लोकं, गृहीत्वा संयम रयात् ॥३९३।। तस्मान्ममास्य राज्यस्य, त्वं हि भारधरो भव । नन्दनस्य च जामातुः, किञ्चिदप्यन्तरं न हि ॥३९४॥ धन्योऽसि कृतपुण्योऽसि, पूज्योऽसि त्वं सुतापतिः । विवेकी गुणवांस्त्वं हि, राज्यं तेन प्रदीयते ॥३९५।। अग्रे प्रदत्तमेवास्ति, साम्राज्यं करमोचने । एवं संबोध्य सद्वाक्य, राज्ये संस्थापितः पुनः ॥३९६।। आकार्याथ सुते ते द्वे, महासेनेन भाषितम् । वत्से ! जातोऽस्मि दीक्षार्थी, जाते तुर्याश्रमेऽधुना ॥३९७।। युष्मद्दोषक्षये जाते, जाते पाणिग्रहोत्सवे । कृतकृत्योऽस्म्यतो दीक्षाऽनुमतं मे प्रदीयताम् ॥३९८।। तथा भव्यतया स्थेयं, धार्या शिक्षेति मामकी ।
वर्त्तव्यं पतिचित्तेन, न चाल्यं वचनं कदा ॥३९९।। उक्तञ्च- अभ्युत्थानमुपागते गृहपतौ तद्भाषणे नम्रता,
तत्पादाप्तिदृष्टिरासनविधौ तस्योपचर्या स्वयम् । भुक्ते भर्तरि भोजनं प्रकुरुते सुप्ते शयीत प्रिया, प्राज्ञैः पुत्रि ! निवेदिताः कुलवधूसिद्धान्तधर्मा अमी ॥४००॥ भर्तृभक्तिरियं धार्या, न कार्या चारतिः कदा । युष्मत्कृते भवद्भत्रे, दत्तं राज्यं पुरागतम् ॥४०१॥