________________
[धर्मकल्पद्रुमः प्रस्तावे रत्नपालेन, रसं निष्कास्य कुम्पकात् । लाघवादाद्यकन्याया, भालेऽथ तिलकं कृतम् ॥३६४॥ द्वितीयायश्च कन्याया, नेत्रयोरञ्जनं कृतम् । तत्क्षणाद्दिव्यरूपाढ्या, जातान्या तारलोचना ॥३६५।। देवकन्यासमे कन्ये, जाते रूपेण ते उभे । पद्मपत्रसुनेत्रे च, लावण्यरसकुम्पिके ॥३६६।। स्वर्णं यथाऽग्निना तप्तं, दधात्येवाधिकप्रभाम् । गतदोषे कुमाते, शुशुभाते तथाधिकम् ॥३६७।। तत्क्षणात् तं गुणं दृष्ट्वा, कन्ययोरुभयोरपि । राजवर्गादयो लोका, हर्षिताश्च चमत्कृताः ॥३६८।। महासेनो महीपालः, पत्नीप्रेमवतीयुतः । ऊर्ध्वस्थो रत्नपालस्य, लुञ्छनानि चकार च ॥३६९॥ हर्षोत्कर्षवशेनाथ, प्रोचेऽथ रचिताञ्जलिः । उपकारकृते राजन्नवतारो भवादृशाम् ॥३७०।। न केवलं त्वया पुत्रीदोष एव निराकृतः । चिरान्मे हृदयाद्दुःखशल्योद्धारः कृतोऽधुना ॥३७१।। कृताऽथ नगरे शोभा, सञ्जातो धवलध्वनिः । भेरीप्रमुखनादेन, पूरिताः सर्व्वदिग्मुखाः ॥३७२।। मण्डिता दानशाला च, प्रारब्धोऽष्टाह्निकोत्सवः । अमारिपटहोऽवादि, राज्ञा देशे पुरादिषु ॥३७३॥ अथ भूपसुते ते द्वे, रत्नपालं निरीक्ष्य तम् । अत्यन्तं धन्यमात्मानं, मन्यमाने जहषतुः ॥३७४।। ऊचतुश्च सदौचित्यं, वाचा मधुरया रयात् । हे सुभग ! त्वयाऽद्यास्मज्जीवितं सफलं कृतम् ॥३७५॥ महद्यदर्जितं पुण्यमावाभ्यां पूर्वजन्मनि । जागरितं तदद्यैव, भवेऽस्मिन् तव दर्शनात् ॥३७६।।