________________
पञ्चमः पल्लवः]
[१९३ पादचारी महासेनो, रत्नपालनृपाग्रतः । चचाल निजकार्यार्थी, 'स्वार्थे को विनयी न हि ?' ॥३५२॥ दीयमानेषु दानेषु , वाद्येषु वादितेषु च । महोत्सवसमं राजा, प्रविवेश पुरान्तरे ॥३५३।। श्रीरत्नपालभूमीशं, निवेश्य महदासने । प्रणामपूर्वकं चैवं, महासेनेन जल्पितम् ॥३५४।। रत्नपालधराधीश !, त्वं वचो मेऽवधारय । हीनदीनार्त्तभूतेषु , त्वादृशाः स्युः कृपापराः ॥३५५।। सदोषे मम ये पुत्र्यौ, ते द्वे त्वं हि विलोकय । तव नेत्रामृतेनैव, नीरोगे ते भविष्यतः ॥३५६।। इह लोकेऽस्ति ते लाभः, परलोकः शुभाश्रयः । श्रुत्वैवं रत्नपालोऽवक्, कन्ये ते द्वे इहानय ॥३५७।। तदा नृपेण ते बाले, समानीते तदन्तिके । दृष्ट्वा तथाविधे कन्ये, रत्नपालो व्यचिन्तयत् ॥३५८॥ नारीरत्नद्वयं हाहा, दुर्दैवेन विनाशितम् । उभयोः सदृशो योगो, जातः कर्मप्रभावतः ॥३५९।। तदा श्रीरत्नपालेन, महाडम्बरहेतवे । दिव्यमण्डलमालिख्य, प्रणवस्तत्र मण्डितः ॥३६०।। तन्मध्ये ते उभे कन्ये, निवेश्य प्रवरासने । अक्षतैस्ताडयामास, मन्त्रोच्चारणपूर्वकम् ॥३६१।। कृष्णागुर्खादिवस्तूनां, कृता भोगास्तदा घनाः । कृतो होमश्च नैवेद्यं, बलिदत्तस्त्वनेकधा ॥३६२।। बहुधा कथ्यते किं किं, वर्तन्ते यानि भूतले । तानि साराणि वस्तूनि, मण्डितान्यत्र मण्डले ॥३६३।।
१. महासेन इति स्यात् ।