________________
[धर्मकल्पद्रुमः व्योमवाणीमिति श्रुत्वा, ते सर्वे दधिरे मुदम् । ससंभ्रमं समुत्तस्थौ, महासेनो महीपतिः ॥३३९।। यत्रास्ति रत्नपालोऽसौ, संस्थितो नीरधेस्तटे । महासेनो महीपोऽथ, तत्रागात् सपरिच्छदः ॥३४०॥ संयोज्य द्वौ करो राजा, साष्टाङ्गं प्रणिपत्य च । जगाद विनयेनोच्चै, रत्नपालं नृपं प्रति ॥३४१॥ अद्य मे फलितो गेहे, सुवृक्षः कुसुमं विना । अनभ्रा चातुला वृष्टिर्मरुस्थल्यां सुरद्रुमः ॥३४२॥ दरिद्रस्य गृहे हेमनिचयः प्रकटोऽभवत् । प्रीणितोऽहं त्वदालोकात् पीयूषपानतो यथा ॥३४३।। परोपकृतिधौरेयावधार्य वचनं मम । भवत्पादरजःपातात् पवित्रीकुरु मे पुरम् ॥३४४॥ एवं नृपवचोयुक्ति, श्रुत्वाऽवादीत् परो नृपः । अज्ञातकुलशीलस्य, मानं मे दीयते कथम् ? ॥३४५।। पुनः प्रोचे महासेनो, मया ज्ञातं कुलं तव । आकारैरिङ्गितैर्गत्या जानन्ति हि विचक्षणाः ॥३४६॥ अग्रेऽपि मम देव्योक्तो, नराधिप ! तवागमः । पूर्वं देवी मया ध्याता, तयाऽऽनीतस्त्वमत्र तत् ॥३४७।। स्वस्थचित्तस्त्वमागच्छ, प्रसन्नीभूय मत्पुरे । कृत्वा मम प्रसादं च, सज्जीकुरु सुताद्वयम् ॥३४८।। अथास्मिन् समये तत्र, शृङ्गारितमनेकधा । हस्तिरत्नं समानीतं, महासेनोऽवदत् पुनः ॥३४९।। एनं गजं समारुह्य, चल राजन् पुरान्तरे । इत्याग्रहाद् गजारूढो, रत्नपालश्चचाल च ॥३५०॥ नराः केऽपि रथारूढा, गजारूढा हयाश्रिताः । सुखासनस्थिताः केचिन्नृपपार्वेऽचलंस्तदा ॥३५१।।