________________
पञ्चमः पल्लवः]
[१९१ अरतिर्न त्वया कार्या, पुनरेवं हि कथ्यते । मयैवैतत्कृतं सर्वं, तत्ते भावि समीहितम् ॥३२६।। मद्वाक्यैरधुनैवात्र, सोत्साहास्तव सम्मुखाः । आगमिष्यन्ति भूपाद्यास्त्वदाकारणहेतवे ॥३२७।। गन्तव्यं हि त्वया शीघ्रं, किञ्चिच्चिन्त्यं न कारणम् । सर्वं भावि तवाभीष्टं, नान्यथा सुरगीरहो ॥३२८॥ इत्थं श्रुत्वा नृपः प्रोचे, नाहं जानामि किञ्चन । हे देवि ! कथमारोग्यं, तत्कुइँ कन्ययोस्तयोः ? ॥३२९॥ देव्यूचे हे महासत्त्व !, मा वादीरीदृशं वचः । भवतोऽस्ति रसः सिद्धो, भवेत् तस्माद् गुणः क्षणात् ॥३३०॥ 10 नृपोऽवादीन्न मत्पार्श्वे, रसः कोशेऽस्ति किन्तु मे । देवी प्रोचे ददाम्याशु , रसमानीय कोशतः ॥३३१॥ इत्युदित्वा गता देवी, निमेषाद्रसकुम्पकम् । नृपकोशात् समानीयार्पयामास क्षमाभुजे ॥३३२॥ रक्षणीयो रसो यत्नात् , कुमारीगुणकारकः । इत्युक्त्वा सा गता क्वापि, देवी पुंरूपधारिणी ॥३३३।। दिव्यानुभावतः प्राप, क्षणं मूर्धी क्षमापतिः । स्वस्थीभूतः पुनश्चित्ते, रत्नपालो व्यचिन्तयत् ॥३३४॥ इन्द्रजालमिदं किं किं, चित्तचालोऽथवा मम । किं स्वप्नसदृशं दृष्टं, क्व गतो देवतानर: ? ॥३३५॥ स्वचित्ते चिन्तयन्नेवमुन्मील्य निजलोचने । सर्वत्र दिग्मुखान् पश्यन् , भूपतिस्तत्र संस्थितः ॥३३६।। समीपाद्रत्नपालस्य, तावत् सा देवता रयात् । पुरस्योपरि तस्यैव, गत्वोवाच नभः स्थिता ॥३३७।। भो जनाः ! श्रूयतां कन्यागुणकारी नरोत्तमः । मयाऽऽनीतोऽस्ति पोतेनोपविष्टोऽस्त्यम्बुधेस्तटे ॥३३८॥
25