________________
5
10
15
20
®]
स एव तव कन्ये द्वे, गतरोगे करिष्यति । कन्याद्वयस्य भावी स, प्राग्जन्मस्नेहतो वरः ॥ ३१४|| इदमुक्त्वा गता देवी, तिरोभूय क्षणादपि । ततः प्रमुदिता लोका, मन्त्रिणोऽपि विशेषतः ॥३१५॥ राजा राज्ञी च कन्ये द्वे, रोगशान्ति श्रुतेरपि । अत्यन्तं हर्षिताश्चित्ते, केकिवज्जलदागमे ॥३१६ ॥ ततो राजा प्रहर्षेण, कृत्वा तद्ध्यानमोचनम् । पारयित्वा तपश्चक्रे, पारणं परिवारयुक् ॥३१७॥ रत्नपालनृपस्याग्रे, नररूपेण देवता ।
एवं कन्याकथां प्रोक्त्वा, प्रोवाच पुनरप्यदः ॥३१८॥ वातप्रेरितपोतेन, मयाऽऽनीतस्त्वमत्र भोः ! | षड्योजनशतान्यस्मात्, स्थानान्नगरमस्ति ते ॥३१९॥ अहमत्रत्यभूपालराज्याधिष्ठायिका सुरी ।
पुंरूपा तव सम्बन्धज्ञापनाय समागता ॥ ३२० ॥ गुणं कृत्वाऽथ कन्याङ्गे, तत्पाणिग्रहणं कुरु । त्वत्साहाय्यकरी त्वस्मि, नाहं भो विप्रतारिका ॥ ३२१॥
[ धर्मकल्पद्रुमः
प्राचीनपुण्यतो राजन् !, प्राप्यते देवदर्शनम् । विना भाग्यैर्न तुष्यन्ति, मानवे देवताः खलु ॥३२२॥ यतः- अमोघा वासरे विद्युत्, अमोघं निशि गर्जितम् । अमोघा सज्जना(न)वाणी, अमोघं देवदर्शनम् ॥३२३॥ अतः कारणतो भूप !, न भेतव्यं मनागपि । काचिच्चिन्ता न कार्येति, परभूपतितोऽस्म्यहम् ॥३२४॥ यस्मिन् कस्मिन् समुत्पन्ने, कार्ये स्मार्या त्वया त्वहम् । तव पुण्यप्रभावेन, सर्वं भव्यं भविष्यति ॥ ३२५ ॥
१. प्रोच्य इति स्यात् । २. पृथ्व्यां पतितः ।