________________
10
पञ्चमः पल्लवः]
[१८९ यत्त्वयैकाग्रचित्तेन, कृता भक्तिः स्वशक्तितः । तुष्टा जाताऽस्मि तेनाहं, रक्षका तव दुःखतः ॥३०१॥ ब्रूहि त्वं तव किङ्कार्यं, येनाहं भवता स्मृता । परं ते तनयो नास्ति, विधौ तुष्टेऽपि कर्मतः ॥३०२।। पूर्वजन्मार्जितं कर्म, यत्तस्य हि फलोदयः ।
लुप्यते नैव केनापि, प्रकारेण सुरासुरैः ॥३०३॥ गाहा- पसुपंखिमाणुसाणं, बाले जो वि हु विओयए पावो ।
सो अणवच्चो जायइ, अह जायइ तो विवज्जिज्जा ॥३०४॥ [] दयया वत्सरूपाणि, महिषीणां गवां तथा । यः पालयति पुण्यात्मा, जायन्ते तस्य नन्दनाः ॥३०५॥ तत्त्वं सुतमतिं त्यक्त्वा, कार्यमन्यन्निवेदय । तस्य प्रत्युत्तरं येन, ददामि तव साम्प्रतम् ॥३०६।। राजा जगाद हे देवि !, विद्यते मे सुताद्वयम् । परमेका गलत्कुष्ठा, द्वितीयाऽन्धाऽस्ति कर्मतः ॥३०७।। दिव्यौषधं दिव्यरसं, दिव्याञ्जनमपि स्फुटम् । देहि मे यदि तुष्टाऽस्ति, येन रोगक्षयो भवेत् ॥३०८।। नभःस्था पुनरप्यूचे, देवी प्रकटभाषया । नृपाद्या भो जनाः ! सर्वे, श्रूयतां वचनं मम ॥३०९।। सोत्कण्ठास्ते जना देवीवचने दत्तकर्णकाः । शुश्रुवुः स्वस्थचित्तेनामोघामिति सुरीगिरम् ॥३१०।। राजन्कन्याद्वयस्यापि, कुष्ठान्धत्वरुजाहरः । उपाय: सत्य एवायं, कथ्यते ते मयाऽधुना ॥३११॥ पाटलीपुरतोऽप्येकं, रत्नपालाभिधं नृपम् । क्रीडन्तं बेडया नद्यामत्रानेष्याम्यहं प्रगे ॥३१२॥ सम्मान्य स पुरीमध्ये, त्वयाऽऽनेतव्य उत्सवात् । बहुमानञ्च दत्त्वाऽस्य, कथ्यं कार्यं निजं ततः ॥३१३।।
25