________________
5
10
151
20
25
८]
त्वमेका सर्व्वभूतानां देहे देहे पृथक् स्थिता । इन्द्रियाणामधिष्ठात्री, त्वमेका किल गीयसे ॥ २८८॥ अणिमादिकलब्धीनां, प्राप्तौ त्वमेव कारणम् । तुष्टा त्वमेव लोकेऽत्र, महाराज्यप्रदायिनी ॥२८९॥ पादलेपाञ्जनादीनि, निधानौषधिधातवः । गुटिका कामदा चेति, सिध्यन्ति त्वत्प्रसादतः ॥ २९०॥ चिन्तामणिः कल्पवृक्षः, कामधेनुघटादयः । माहात्म्येन त्वदीयेन, पूरयन्ति मनोरथान् ॥२९१॥ क्षोभेणं परसैन्यानां, स्वसैन्यानाञ्च रक्षणम् । स्खलनं परशस्त्राणां, करोति त्वदुपासकः ॥ २९२॥ योगदा योगिनां नित्यं, ज्ञानदा ज्ञानमिच्छताम् ।
पुत्रदापि च वन्ध्यानां, त्वमेवैकासि भूतले ॥२९३॥ अतीतानागतं ज्ञानं, वर्त्तमानं विशेषतः ।
[ धर्मकल्पद्रुमः
उपद्रवादिशमनं, ग्रहाणां निग्रहस्तथा ॥ २९४॥ उत्थापनञ्च दुष्टानामार्त्तानामार्त्तिनाशनम् ।
इत्यादिकं च यत्किञ्चित् स्फुरेत् सर्वं त्वदाश्रयात् ॥ २९५ ॥ इत्थं संस्तूयमाना सा, सप्तभिर्दिवसैर्निशि ।
देवी बभूव प्रत्यक्षा, खे स्थिता दिव्यरूपभाक् ॥ २९६॥ तद्रूपं प्रेक्ष्य भूपालः, प्रोत्फुल्लनयनाम्बुजः ।
कृत्वा प्रणाममित्यूचे, संयोज्य करसम्पुटम् ||२९७|| अद्य मे सफलं जन्म, ममाद्य सफलं तपः ।
अद्य मे सफलं ध्यानं, हे देवि ! तव दर्शनात् ॥२९८॥ किं देवि ! बहुनोक्तेन, सारमेकं वचः शृणु ।
वाञ्छितं देहि मे शीघ्रं, व्यग्रं स्वस्थीकुरुष्व माम् ॥२९९॥
वचनामृतसन्तृप्ता, सन्तुष्टा निजमानसे । देव्युवाच महासत्त्व !, राजेन्द्र ! शृणु मद्वचः ॥३००||