________________
[१८७
पञ्चमः पल्लवः]
अतो नाथ ! स्थिरीभूय, गोत्रजाराधनं कुरु । कातरत्वं परित्यज्य, भजस्व हृदि धीरताम् ॥२७५।। इदं प्रधानवचनं, श्रुत्वा भूपो व्यचिन्तयत् । असौ हितकरो मन्त्री, वर्त्तते मम सर्वदा ॥२७६।। एष मे साम्प्रतं सत्य, उपायः कथितोऽमुना । इत्यालोच्य नृपोऽवादीत् , प्रमोदभरनिर्भरम् ।।२७७।। हे मन्त्रिन् ! मम सान्निध्यं, कुरु त्वं सुरसाधने । यथा मेऽभीष्टदेवस्याराधने क्षोभणा न हि ॥२७८।। असहायः समर्थोऽपि, तेजस्व्यपि करोति किम् ? । निर्वाते ज्वलितो वह्निः, स्वयमेवोपशाम्यति ॥२७९॥ ततस्त्वया महामन्त्रिन् !, साहाय्यं कार्यमादरात् । सुरीसाधनसामग्री, प्रगुणीकुरु सत्वरम् ॥२८०॥ राज्यशिक्षां ततो दत्त्वा, सचिवेषु पृथक् पृथक् । शुचीभूय सदाचारो, देवताग्रे नृपो ययौ ॥२८१॥ शुभध्यानपरो भूत्वा, कृत्वा निश्चलमासनम् । त्यक्त्वाऽऽहारं च निद्राञ्च, भूपतिस्तत्र संस्थितः ॥२८२।। महाध्यानी महामौनी, मायामानविवर्जितः । स्थिरचित्तो धराधीशो, यतीश इव चाभवत् ॥२८३।। अमात्योऽप्यग्रतः स्थित्वा, तत्रैव स्थिरमानसः । कर्पूरागुरुकस्तूरीवस्तुभिर्भोगमातनोत् ।।२८४।। जपं होमं बलिं कृत्वा, दत्त्वा पूर्णां महाहुतिम् । देवीं नत्वा च भूपालः, स्तुतिमेवं विनिर्ममे ॥२८५।। आदिशक्ते नमस्तुभ्यं, विश्वविघ्नौघहारिणि ! । त्वं विश्वपालिका देवी, भक्तानां सिद्धिदायिनी ॥२८६।। भोगदा सर्वसत्त्वेषु , सर्वभूते जयप्रदा । सर्वज्ञा सवंगा नित्यं, सर्वकल्याणकारिणी ॥२८७।।