________________
5
10
15
20
६]
किं गजैश्च हयैः किं वा, किं रथैः किमु पत्तिभिः । किं ममान्तः पुरेणापि, मन्त्रिभिर्बहुभिः किमु ? ॥ २६३|| एकापत्यविहीनत्वात् सर्व्वमेतन्निरर्थकम् । साम्प्रतं सह पुत्रीभिर्मर्त्तव्यं मयका खलु ॥२६४||
[ धर्मकल्पद्रुमः
एवं संशोच्य भूपालो, मरणाय समुद्यतः । आहूय च महामात्यं, गदिता चित्तकल्पना ॥ २६५॥ मन्त्री प्रोवाच हे स्वामिन् ! मा वादीरसमञ्जसम् । त्वदाधारे जगत् सर्व्वं वर्त्तते विश्वनायक ! ॥२६६॥ हे नाथ ! त्वां विना राज्यं, शून्यं तिष्ठेत् कथं क्षितौ ? | विना त्वाञ्च नियोगित्वमयोग्यं मम सर्व्वथा ॥ २६७॥ अतः कारणतो नाथ !, न वचो वाच्यमीदृशम् । राजा प्रोचे चिकित्साद्यै, रोगौ पुत्र्योर्गतौ न हि ॥२६८||
तदुःखपीडिते पुत्र्यौ, मर्तुकामे बभूवतुः । पूर्वमेकं न मेऽपत्यं, दुःखमेतत् कथं सहे ? ॥२६९॥ मन्त्री प्रोचे सुतारोगशान्त्यर्थं मे वचः शृणु । राज्यरक्षाकरीं शक्तिमाराधय स्वशक्तितः ॥२७०॥ भविष्यति यदा तुष्टा, सा शक्तिः भक्तवत्सला । तदा सेत्यस्यति ते कार्यं, नन्दिनीरोगनाशतः ॥२७१॥ पुनरेकं वचः स्वामिन् !, श्रूयतां स्त्रीजनोचितम् । मरणं शरणं दुःखे, कातरस्य परस्य न ॥ २७२ ॥ यतः- सम्पदि यस्य न हर्षो, विपदि विषादो रणे च धीरत्वम् ।
तं भुवनत्रयतिलकं, जनयति जननी सुतं विरलम् ॥२७३॥ ये नराः सत्यसंयुक्ताः, सुधैर्याः सर्व्वकर्मसु । कुकर्म्मरहिताः कष्टे, तैरियं मण्डिता मही ॥ २७४॥
१. मान्यार्थे द्विवचनस्थाने बहुवचनं ज्ञायते ।