________________
पञ्चमः पल्लवः]
[१८५
इत्यादिकं कृतं राज्ञा, सर्वं जातं निरर्थकम् । तदा भूमिपतिर्जातो, निराशः सपरिच्छदः ॥२५०॥ तद्दुःखान्मन्यमानश्चाधन्यमात्मानमात्मना । राजा राज्ञीयुतोऽत्यन्तं, विलपन्नेवमवोचात्(मूचिवान्) ॥२५१॥ प्राग्जन्मनि किमस्माभिः, पुत्रीभ्यामथवा महत् । पातकं दारुं चक्रे ?, येनेदं दुःखमागतम् ॥२५२॥ वियोगो मातुरुत्सङ्गद्वालानां विहितः पुरा । अथवा मुनिवर्गेषूपसर्गश्च कृतो महान् ॥२५३॥ किं वा वत्साश्च धेनूनां, पयःपानान्निवारिताः । सर:शोषः कृतोऽस्माभिर्दत्तो वह्निर्वने किमु ? ॥२५४॥ एवं हि बहुधा राजा, शोचत्युच्चैदिने दिने । राजवर्गोऽखिलो राजपुत्रीदुःखेन दुःख्यभूत् ॥२५५।। इतश्च कन्यके ते द्वे, मर्तुकामे बभूवतुः । यैर्भुक्तं हि सुखं पूर्वं, तैर्दु:खं सह्यते कथम् ? ॥२५६॥ सरोगो यस्य देहः स्यान्निष्फलं तस्य जीवितम् । स हि जीवन्मृतो ज्ञेयो, यस्य गर्दा जनेऽजनि ॥२५७॥ अथ गत्वा नृपस्याग्रे पुत्रीभ्यामिति भाषितम् । हे तात ! कुरु सामग्री, देहि नौ काष्ठभक्षणम् ॥२५८।। किं हि राज्यसुखेनापि, जीवितेन किमावयोः ? । यद्यङ्गे दूषणं जातं, ततो वै मरणं वरम् ॥२५९।। तच्छ्रुत्वा नृपतिर्दध्यौ, हाहा जातं किमीदृशम् ? । अकाण्डे दुःखदो विश्वे, वक्रोऽयं दृश्यते विधिः ॥२६०॥ पुत्रीमोहो महान् मेऽस्ति, स मुक्तोऽपि न यास्यति । पत्र्यौ विना न जीवामि, न जीवेन्मां विना प्रिया ॥२६१।। कुटुम्बस्य विनाशो मे, समकालं समागतः । किं वा राज्येन कोशेन, किं पुरैः पत्तनैर्मम ? ॥२६२।।
20