________________
5
10
15
20
25
१४]
[ धर्मकल्पद्रुमः
ताभ्यां बुद्धिगुणाढ्याभ्यां, शिक्षिताः सकलाः कलाः । क्रमात् प्राप्तं च तारुण्यं, रूपलावण्यमन्दिरम् ॥२३७|| नयनानन्ददायिन्यौ, नन्दिन्यौ वीक्ष्य ते उभे । सचिन्तो नृपतिर्यावत्, तद्विवाहकृतेऽभवत् ॥ २३८॥ तावत्प्राचीनदुष्कर्म्मप्रभावात् हे नराधिप ! । उभयोः कन्ययोर्देहे, यज्जातं तन्निशम्यताम् ॥२३९॥ गलत्कुष्ठाऽभवत् ज्येष्ठा, कनिष्ठाऽन्धीबभूव च । ततो व्यचिन्तयद्राजा, दुःखपूरेण पूरितः ॥ २४०॥ अहो इत्थं कथं जातं, युगपत्कन्ययोर्द्वयोः ? | दैवेन दूषितं रत्नं, कं पृच्छामि करोमि किम् ? ॥२४१॥ इति दुःखं धरन् चित्ते, राज्यचिन्तां करोति न । प्रधानपुरुषैः सोऽथ, विज्ञप्तो नरनायकः ॥ २४२॥ अलं राजन् ! विषादेन, विषमा कर्म्मणां गतिः । दैवस्य किमुपालम्भैः ?, सुदृढं क्रियते मनः ॥२४३॥ उद्यमः क्रियतां राजन् ! वैद्यानाहूय पृच्छ्यताम् । तदुक्ता विविधा कार्या, चिकित्सा रोगशान्तये ॥ २४४॥ ऋणं रिपुस्तथा रोग, उदिताश्छेदिता न यैः । ते नरा निश्चितं पश्चदाविनश्यन्ति न संशयः ॥ २४५ ॥ ततः स्वस्थं मनः कृत्वा, सम्प्रेष्य निजपूरुषान् । भूपोऽथाकारयामास, वैद्यान् विद्याविशारदान् ॥ २४६॥ नृपाज्ञया ततस्तत्रागता वैद्या अनेकशः । तैर्विचार्य समारब्धा, चिकित्सा कन्ययोर्द्वयोः ॥२४७॥ उपायाश्चक्रिरे वैद्यैरनेकेऽपि पृथक् पृथक् ।
ते सर्व्वे निष्फलता जाता, गुणः कश्चिद्बभूव न ॥ २४८ ॥ मन्त्रयन्त्रग्रहादीनां, पूजा पृच्छा च मण्डले । बलिहोमविधानञ्च, शान्तिकं पौष्टिकं तथा ॥ २४९ ॥