________________
पञ्चमः पल्लवः]
[१८३ त्रिंशल्लक्षास्तुरङ्गाणां, कोशे सङ्ख्या धनस्य न । परमेकः सुतो नास्ति, कुलराज्यधुरन्धरः ॥२२४॥ ततः कृता नरेन्द्रेण, महोपाया अनेकशः । पुत्रप्राप्तिर्न तस्याभूत् परं कर्मानुभावतः ॥२२५।। मणिमन्त्रौषधीयन्त्रदेवताराधनादिकम् । सर्वं सिध्यति पुण्येन, तद्विना नास्ति किञ्चन ॥२२६॥ आलक्ष्यदन्तमुकुलाननबद्धहासानव्यक्तवर्णरमणीयवचःप्रवृत्तीन् । अङ्कागतान्प्रणयिनस्तनयान्वहन्तो, धन्यास्तदङ्गरजसा परुषीभवन्ति ॥२२७॥ वन्ध्यत्वं हि कुरण्डत्वं, मूकत्वं चाङ्गहीनता । कुष्ठषण्ढादिकं सर्वं, भवेयुः पापयोगतः ॥२२८॥ पुण्यकर्म तदारब्धं, सन्तानार्थं नृपेण तु । दीयते दीनदुःस्थेषु , दयादानं दिने दिने ॥२२९।। देवार्यों कुरुते दानं, दत्ते पात्रे विशेषतः । तस्येत्थं कुर्व्वतः कान्तरायमभवल्लघु ॥२३०॥ तस्य प्रेमवती राज्ञी, सगर्भाऽभवदन्यदा । राजा राज्ञी च लोकाश्च, सहर्षा जज्ञिरे भृशम् ॥२३१।। समये सुषुवे राज्ञी, युगपत्पुत्रिकाद्वयम् । महोत्साहात् तदा राजा, वर्धापनमकारयत् ॥२३२॥ असन्तानतया राजा, सुताजन्मनि हर्षितः । महारण्ये जले प्राप्ते, तृषार्त इव मानवः ॥२३३॥ यथा ग्रामेष्ववृक्षेष्वेरण्डोऽपि मन्यते महान् । असुतत्वे सुताजन्म, शतपुत्रान् स मन्यते ॥२३४॥ कृत्वा जन्मोत्सवं रम्यमाद्या कनकमञ्जरी । इत्थं पित्रा कृतं नाम, द्वितीया गुणमञ्जरी ॥२३५।। शुक्लपक्षे यथा चन्द्रः, कलाभिर्वर्धतेऽधिकम् । चेटीभिर्लाल्यमाने ते, द्वे पुत्र्यौ वधिते तथा ॥२३६।।