________________
[धर्मकल्पद्रुमः वातेन प्रेरिता सा नौश्चलिता त्वरितं तदा । उभयोस्तटयोामान् , भ्रमतो दृष्टवान् नृपः ॥२११॥ अनेकनगरद्वीपपर्वतालिद्रुमादिकम् । चक्रारूढमिवापश्यन्नावः शीघ्रगतेर्वशात् ।।२१२।। गतं मुहूर्त्तमात्रेण, बोहित्थं पूर्वसागरे । तटं प्राप्य स्वयं तस्थौ, स्वस्थोऽभून्नृपतिस्तदा ॥२१३।। पोतादुत्तीर्य राजाथ, बहिर्नीराद्विनिर्गतः । तावत्तत्र पुमानेक, आगतः सम्मुखो रयात् ॥२१४॥ स प्रोवाच महाराज !, मा विषादं करिष्यसि । विदेशे चागते दूरं, नाभव्यं भावि किञ्चन ॥२१५।। अत्राहं ग्रामसीमानि, जनान् जनपदानपि । किञ्चिच्चान्यन्न जानामि, किं करोमि क्व याम्यहम् ? ॥२१६।। इत्थं त्वया विचिन्त्यं न, कदाचिदपि मानसे । सर्वत्र सर्वदा सर्वं, भविष्यति शुभं तव ॥२१७।। युग्मम् ।। अहं तव सहायोऽस्मि, साम्प्रतं स्वस्तिकारकः । परिणामे शुभं सर्च, भवेद् भवादृशां भुवि ॥२१८|| शृणु सुन्दर ! मे तथ्यं, पुनर्वचनमुत्तमम् । यस्मिन् श्रुते तवाश्वासो, महान् चित्ते भविष्यति ॥२१९॥ पूर्वसागरदेशोऽयं, तत्र रत्नपुराभिधम् । स्वनिवाससमा भूमिर्यत्रास्ति जनसौख्यदा ॥२२०॥ महासेनाभिधोऽत्रास्ति, ज्ञातो दिक्षु दशस्वपि । समस्तपर्वदिक्स्वामी, चामीकरसमप्रभः ॥२२१॥ पत्नी प्रेमवती तस्य, साध्वीजनशिरोमणिः । प्रियापञ्चसहस्रेषु , मुख्या दक्षा च वर्तते ॥२२२॥ राज्ञोऽस्य नगरग्रामपुराणि दश कोटयः । दश लक्षा गजरथाः, कोटिविंशतिः पत्तयः ।।२२३।।