________________
[१८१
पञ्चमः पल्लवः]
श्रुत्वेति वृद्धाकुमारो, जातिस्मृतिमवाप सः । गुरूक्तं सकलं सत्यं, ज्ञातं देवार्चनाफलम् ॥२००॥ एवं जिनेन्द्रपूजायाः, कृतायाः पूर्वजन्मनि । फलं ज्ञात्वा कुमारोऽगात् , स्वगेहे पितृसंयुतः ॥२०१॥ क्रमेण तत्पुरे वृद्धाकुमारोऽभूद्धराधिपः । जिनार्चादानमुख्यानि, चक्रे पुण्यान्यनेकधा ॥२०२॥ इत्थं पूजाप्रभावेण, भुक्त्वा राज्यादिकं सुखम् ।
राजा प्रान्ते गुरोः पार्वे, व्रतं प्राप्य शिवं ययौ ॥२०३॥ उक्तञ्च- श्रेयः करोति दुरितानि निराकरोति,
लक्ष्मी तनोति शुभसञ्चयमातनोति । मान्यत्वमानयति कर्मरिपून्निहन्ति, पूजा जिनस्य विहिता बहुसौख्यदा च ॥२०४॥
इति वृद्धाकुमारकथा समाप्ता ॥ हु भो राजन् रत्नपाल ! त्वं, प्रत्यहं जिनपूजनम् ।
कुरुष्वैकाग्रचित्तेन, महासौख्यं यथा भवेत् ॥२०५॥ जिनार्चाफलमाकर्ण्य, जहषुर्भव्यजन्तवः । गृहीतो नियमः सर्वैर्मुनिपार्श्वे जिनार्चने ॥२०६।। वन्दित्वा तं गुरुं राजा, रत्नपालो ययौ गृहे । जगामान्यत्र भव्यानां, प्रतिबोधाय सद्गुरुः ॥२०७।। अथ श्रीरत्नपालोऽपि तद्दिनात् सुविशेषतः । जिनपूजादिकं सर्वं, चक्रे पुण्योद्यमं महत् ॥२०८।। ग्रीष्मकालेऽन्यदा राजा, गङ्गायां जलकेलये।। गतवान् नावमारुह्य, तत्रैकाकी विवेश सः ॥२०९॥ क्रीडां प्रकुर्व्वतस्तस्य, यज्जातं तन्निशम्यताम् । तावदाकस्मिको वायुरजायत महाबलः ॥२१०।।