________________
७]
[धर्मकल्पद्रुमः श्रुते धर्मोपदेशेऽस्य, जिनदासोऽवदत् पिता । प्रभो ! वृद्धाकुमारेण, पूर्वं किं सुकृतं कृतम् ? ॥१८८।। येनैताः खेचरीकन्या, धन्या यः प्राप भूरिशः । गुरुरूचे कुमारोऽभूत् , पूर्वं त्वद्गृहकर्मकृत् ॥१८९।। त्वच्छरीरेऽन्यदा श्रेष्ठिन् !, व्याधिः कश्चिदजायत ।। अशक्तितो भवान् जातो, देवार्यों कर्तुमक्षमः ॥१९०।। एवं विज्ञाय भृत्योऽसौ, कृत्वाऽञ्जलिमदोऽवदत् । अहं त्वदाज्ञया तात !, करोमि जिनपूजनम् ॥१९१।। तावकीन: कर्मकरः, कृत्यं सर्वं करोम्यहम् । आदेशं देहि मे देवान् , तवार्थे पूजयामि यत् ॥१९२।। भवता कथिते भक्त्या, जिनपूजां चकार सः । त्वद्भार्या सुविचाराऽथ, चक्रेऽस्य सुतवत् हितम् ॥१९३।। क्रमाद्भवान् पटुर्जातश्चक्रे देवार्चनं स्वयम् । ततः कर्मकरः क्षीणदेहो जातो दिने दिने ॥१९४।। त्वयैवं भणितं वत्स !, कथं क्षीणं वपुस्तव । शरीरं बाध्यते किञ्चिदाधिव्याध्यादिभिः किमु ? ॥१९५।। सोऽवोचत् तात ! मे बाधा, शरीरे नास्ति काऽपि हि । परं मे बाधते चित्तं, देवपूजामकुर्व्वतः ॥१९६।। अतो ममारतिदेहे, वर्त्तते महती विभो ! । ततः श्रेष्ठिस्त्वया प्रोक्तं, भोस्त्वं पूजां पृथक् कुरु ॥१९७।। ततोऽसौ सर्वदा पूजामकार्षीच्छुभभावतः । तदा त्वया सुतत्वेन, स्थापितः स्वगृहान्तरे ॥१९८।। क्रमेण कालयोगेन, शूलरोगाद्विपद्य सः । त्वद्गृहे सुतभावेन, समुत्पन्नः स्वपुण्यतः ॥१९९।।
१. तव वाचाऽथ इति प्रत्यन्तरम् ।