________________
पञ्चमः पल्लवः ]
ज्ञातो वृद्धाकुमारोऽसौ, महाभाग्यः ज्ञमाभुजा । ततो दत्ता कुमाराय, सुता कर्पूरमञ्जरी ॥१७५॥ विवाहे तस्य सञ्जातो, द्वितीयोऽप्युत्सवो महान् । तत्रापि गौरवाद् दानं, सम्प्राप्तं पाणिमोचने ॥ १७६॥ दिनान्यत्र कति स्थित्वा सोऽन्यदोचे नृपं प्रति । अहं निजपुरे यामि, यद्याज्ञा भवतो भवेत् ॥ १७७॥ पत्नीद्वययुतो दिव्यखट्वामारुह्य सोऽचलत् । चेलुः सम्पूर्य पोतं च, वणिजः स्वगृहं प्रति ॥१७८॥ द्वितीये दिवसे वृद्धाकुमारो वणिजः प्रति । स्वाभिप्रायं जगादेति, वैताढ्ये गम्यते मया ॥ १७९॥ ततस्तत्र गतः शय्यामारुह्य सुविमानवत् । श्वरस्य कुटुम्बं तन्मिलितं बहुमानितः ॥ १८०॥ दत्ताः प्रभूतकन्याश्च, तैस्तैर्विद्याधरैः पुनः । मणिमुक्तासुवर्णैश्च, सत्कृतः स्नेहपूरितैः ॥१८१॥ दत्ता विविधविद्याश्च, तस्मै साधनपूविकाः । सम्प्राप्य वरवस्तूनि, स हृष्टः खेचरान् जगौ ॥ १८२॥ यास्यामि स्वपुरेऽथाहमनुज्ञा मे प्रदीयते । ततो विमानमारुढश्चचाल सह खेचरैः ॥ १८३॥ तद्यानपात्रतः पूर्वमाययौ स्वपुरे रयात् । बहुकन्यामहालक्ष्मीयुक्तश्चागात् स्वमन्दिरे ॥१८४॥ मातापित्रादयो हृष्टा, वालितास्तेन खेचराः । क्रमेण यानपात्रं चागतं क्षेमेण तत्पुरे ॥ १८५ ॥ पृथक् विभज्य तद् द्रव्यं, तेनानीतं निजं गृहे । सुखेनागमयत् कालं, पुण्यैः किं नाम दुष्करम् ? ॥१८६॥
एकदा तत्पुरोद्याने, सूरिर्ज्ञानी समागतः । वन्दनाय गतो वृद्धाकुमारः पितृसंयुतः ||१८७||
[ १७९
5
10
111
15
20
25