________________
१४ा
[धर्मकल्पद्रुमः देवताधिष्ठिता मूलखट्वा श्वशुरपार्श्वतः । वरराज ! त्वया याच्या, विवाहे करमोचने ॥१६२॥ अथ विद्याधरोऽवादीद्भद्र ! त्वं शृणु मे वचः । ममाग्रे पूर्वमित्युक्तं, नैमित्तिकनरेण हि ॥१६३।। एत्यैकाकी नरः कश्चित् , रूपाढ्यः साहसान्वितः । कृत्वा देवालये पूजां, यो घण्टां वादयिष्यति ॥१६४॥ वृद्धाकुमारनामासौ, ध्रुवं तव सुतापतिः । भविष्यतीति तेनोक्तमद्य तन्मिलितं मम ॥१६५।। अतस्त्वं तेन कार्येणात्रानीतोऽसि महाशय ! । मानितं तद्वचस्तेन, कृतः पाणिग्रहोत्सवः ॥१६६।। वराय स्वर्णरत्नानि, भूपोऽदात् करमोचने । वरेण कामदा खट्वा, याचिता भूभुजाऽपिता ॥१६७।। गन्तुकामः कुमारोऽभूत् तमनज्ञाप्य खेचरम् । खेचर: स्माह मे मूलस्थितिर्वैताढ्यपर्वते ॥१६८।। तत्रास्ति धनभाण्डारः, स्वल्पमत्रास्ति मे धनम् । क्रीडाकृते कृतं चात्र, गृहमेतन्मनोहरम् ॥१६९।। तेन ते कथ्यते तत्रागन्तव्यं ह्येकदा त्वया । यथा द्रविणविद्याभिः, सत्कारः क्रियते महान् ॥१७०॥ तथेत्युक्त्वा कुमारोऽथारुह्य शय्यां प्रियायुतः । गृहीत्वा स्वर्णरत्नानि, चचाल गगनाङ्गणे ॥१७१॥ स प्राप क्षण मात्रेण, सिंहलद्वीपमुत्तमम् । वीक्ष्य वृद्धाकुमारं तं, भूपतिस्तत्र हर्षितः ॥१७२।। तान् पोतवणिजः कारागृहाद्भूपो मुमोच सः । शुल्कमोक्षः कुमारस्य, चक्रे तद्गुणरञ्जितः ॥१७३।। पृष्टो राज्ञाऽथ विवरप्रवेशाद्यं कुमारराट् । तेनाप्युक्तं नृपस्याग्रे, स्वरूपं सकलं निजम् ॥१७४।।