________________
पञ्चमः पल्लवः ]
तस्य नादेन सर्वाणि, वादित्राण्यपि तत्क्षणात् । देवताधिष्ठितान्येवं, नदन्ति स्वयमेव हि ॥ १४९॥ श्रुते तेषां सुनिर्घोषे खगा भारण्डपक्षिणः । उड्डीयन्ते तदा त्रासात्, कोटिशो गिरिवासिनः ||१५०॥ तत्पक्षपवनाशु, जलं प्रोच्छलति क्षणात् । तदम्बुप्रेरिताः पोता, आवर्त्तान् निस्सरन्त्यथ ॥१५१॥ ततः स्युर्यानपात्राणि, मार्गवर्त्तीनि वारिधौ ।
एषा कुमार ! कल्पोक्ता, वार्त्ता ते कथिता मया ॥१५२॥
श्रुत्वा वृद्धाकुमारेण, वार्तां तां नरभाषिताम् । प्रविश्य विवरं चक्रे, तत्सर्व्वं सत्त्वतस्तदा ॥१५३॥ पोतेऽथ निर्गते लोकाः, कल्पज्ञनरसंयुताः । संप्रापुः सिंहलद्वीपं, कुमारस्तु बिले स्थितः ॥ १५४॥ ते पृष्टा भूभुजा वृद्धाकुमारः किं न दृश्यते ? | विवरस्थः स तैरुक्तस्तदाऽसौ कुपितो नृपः ॥ १५५॥ कुमारो मुक्त इत्येते, वणिजो गुप्तमन्दिरे । क्षिप्ता राज्ञाऽथ दुःखेन, कालं निर्गमयन्ति ते ॥ १५६॥ इतश्च वृद्धाकुमारो, देहं वस्त्राणि चात्मनः । प्रक्षाल्य वापिकामध्ये, पुष्पाण्यानीय काननात् ॥१५७॥ श्रीमद्युगादिदेवं तं भक्त्या नित्यमपूजयत् । पूजयत्यन्यदा तस्मिन्, तत्रागात् कापि कन्यका ॥ १५८॥ कुमारं प्रेक्ष्य तद्रूपमोहिता सा गृहं गता । स्वाभिप्रायो मातुरुक्तो, भर्तुस्तयापि भाषितः ॥ १५९॥ श्रुत्वा विद्याधरेणैतत्, गत्वा च जिनसद्मनि । सम्मानेन कुमारः स, आनीतो निजमन्दिरे ॥ १६०॥ स्नानभोजनवस्त्राद्यैः, कृत्वा सत्कारमुत्तमम् । विद्याधरप्रिया प्रोचे, प्रस्तावे तं प्रति स्फुटम् ॥१६१॥
[ १७७
5
10
15
20
25