________________
१७
[धर्मकल्पद्रुमः दृष्ट्वैतान् दुःखिनो लोकान् , किं तिष्ठसि निरुद्यम: ? ।
दुर्लभोऽवसरो ह्येष, परोपकृतिसाधकः ॥१३६।। यतः- परप्राणपरित्राणं, स्वप्राणैः केऽपि कुर्वते ।
लवणं दह्यते वह्नौ, परदोषोपशान्तये ॥१३७॥ एषां सकाशाल्लेखं च, गृहीत्वा सिंहलेशितुः । शीघ्रमर्पय पश्चात् तु , शुभं सर्वं भविष्यति ॥१३८।। तत: कीर: कुमारस्योत्सङ्गे गत्वा क्षणात् स्थितः । सर्वं वृद्धाकुमारेण, ज्ञातं शुक्या निवेदितम् ॥१३९॥ कीरकण्ठे ततो बद्धो, लेखो वृत्तान्तसूचकः । शुकेन सिंहलेशस्य, दत्तो लेखः स वेगतः ॥१४॥ ज्ञात्वा भूपेन लेखार्थं, पटहोद्घोषणा कृता । यानपात्रं महावर्तान् निष्कासयति यो नरः ॥१४१।। लक्षं तस्मै प्रदीयन्ते, दीनारा देवसाक्षिकम् । कल्पवेत्ता नरः कश्चिदस्पृशत् पटहं तदा ॥१४२॥ गृहीत्वा हरिणीपुच्छं, षण्मासांस्तैलभावितम् । नृपादेशान्नर: सोऽगात् , वृद्धाकुमारसन्निधौ ॥१४३॥ विना वृद्धाकुमारं को, नास्त्यन्यः सात्त्विकाग्रणीः । विवरं कल्पशास्त्रोक्तं, तस्य तत् तेन दर्शितम् ॥१४४।। दत्त्वा वृद्धाकुमारस्य, मृगपुच्छस्य दीपिकाम् । कल्पप्रोक्तविधि सच, कथयामास मानवः ॥१४५।। नरेण सत्त्वसारेण दीपिकायाः प्रकाशतः । प्रवेशो विवरे कार्यो, गम्यं तत्र कियद् द्रुतम् ॥१४६॥ आयात्यग्रे वरोद्यानं, वापीप्रसादसुन्दरम् । तन्मध्ये वर्त्तते स्वर्णमयं देवगृहं वरम् ॥१४७॥ तन्मध्ये श्रीयुगादीशदेवं नत्वा च पूज्यते । तत्पूर्वद्वारदेशस्था, सद्घण्टा वाद्यते बलात् ॥१४८।।