________________
[१७५
पञ्चमः पल्लवः]
जिनेन्द्रपूजनं नित्यं, ये कुर्वन्ति शुभाशयाः ।
ध्रुवं नश्यन्ति पापानि, तेषां वृद्धाकुमारवत् ॥१२३॥ तथाहि- अस्त्यत्र वारिधेस्तीरे, सुविशालपुरं वरम् ।
पद्माविलाससद्धम्मॆः, स्वर्गखण्डमिवागतम् ॥१२४॥ तत्राभूत् क्षितिपश्चन्द्रश्चन्द्रवन्निर्मलो गुणैः । तस्य राज्ञः प्रियः श्रेष्ठी, जिनदासाभिधः सुधीः ॥१२५।। परमः श्रावक: सोऽभूद् , भार्या तस्य मनोरमा । जिनधर्मे रता सा च, जिनपूजापरायणा ॥१२६।। कान्तराययोगत्वादपुत्रत्वे तयोः सति । प्रभूतः प्रययौ कालो, वृद्धत्वेऽथ सुतोऽभवत् ॥१२७।। वृद्धत्वे नन्दने प्राप्ते, विधाय विविधोत्सवान् । वृद्धाकुमार इत्यस्य, पित्राद्यैर्नाम निर्मितम् ॥१२८।। ववृधेऽसौ क्रमेणाथ, पाठितः प्राप्तयौवनः । कस्यचिच्छेष्ठिनः पुत्री, तातेन परिणायितः ॥१२९।। सोऽन्यदा कौमुदीक्रीडां, वने कर्तुं जनैर्वृतः । रथारूढो व्रजन् मार्गेऽशृणोद्वाजनाननात् ॥१३०॥ निष्पुण्यवत्कुमारोऽसौ, वित्तं नार्जयति स्वयम् । जननीस्तन्यवल्लक्ष्मी, भुनक्त्यद्यापि पैतृकीम् ॥१३१॥ श्रुत्वैवं मातापितरौ, मुत्कलाप्य शुभेऽहनि । चचाल सार्थयुक्तोऽसौ, पोतमारुह्य वारिधौ ॥१३२॥ पार्वतीयमहावर्तेऽपतत् पोतः कुवायुतः । तदावर्तात् कथमपि, बोहित्थं निस्सृतं न तत् ॥१३३।। जना वृद्धाकुमारश्च, ततः पोतं विमुच्य तम् । प्रत्यासन्नगिरौ गत्वा, स्थिता आम्रतरोरधः ॥१३४।। कीरस्तदाम्रशाखायामुपविष्टोऽस्ति सप्रियः । शुकं प्रति शुकी प्रोचे, शृणु वल्लभ ! मद्वचः ॥१३५।।