________________
5
10
151
20
25
१४]
काव्यम् - अद्याचिन्त्यमहाफलेन फलितो मत्पुण्यकल्पद्रुमः, संसाराम्बुधिमज्जनाविकलितं सद्यानपात्रं मया । विद्याऽद्याम्बरगामिनी शिवपुरे गन्तुञ्च लब्धाऽथवा, सत्साधुर्यदयं तपःकृशवपुः प्राप्तो मदीये गृहे ॥११२॥
काव्यम्- हरत्यघं सम्प्रति हेतुरेष्यतः, शुभस्य पूर्वाचरितैः कृतं शुभैः । शरीरभाजां भवदीयदर्शनं, व्यनक्ति कालत्रितयेऽपि योग्यताम् ॥११३॥
[ धर्मकल्पद्रुमः
नाभ्युत्थानक्रिया यत्र, नालापमधुरा गिरः । गुणदोषकथा नैव तस्य हर्म्ये न गम्यते ॥ ११४॥ जोऽपि सज्जने दृष्टे, जायते तोषनिर्भरः । उदिते विकसत्येव, शशाङ्के कुमुदाकरः ॥ १९५॥ अभ्युत्तिष्ठन्ति सन्तोऽपि सद्वृत्तागमने सति । सुधारुचि समायाते, यथा जलनिधिर्जलैः ॥ ११६॥ किन्तपोभिरपर्यन्तैः, किं दानैः कीर्तिडम्बरैः । किं वा जलभृतैस्तीर्थैर्दर्शने त्वादृशां सति ॥११७॥ एवं राज्ञा स्तुतः साधुः, प्रारेभे धर्म्मदेशनाम् ।
शृण्वन्ति श्रद्धया युक्ताः, सभासीना नृपादयः ॥११८॥ आरोग्यं भोगसम्पत्तिरवियोगः प्रियैः सह । अयोगो दुःखपङ्क्त्येति, स्वर्गलक्षणमक्षयम् ॥११९॥ कल्पद्रुरिव वृक्षेषु, विवेकः सुगुणेष्विव ।
ग्रहेष्विव दिवानाथो, ब्रह्मचर्यं व्रतेष्विव ॥१२०॥ धर्मेष्विव दयाधम्र्म्मो, यथा विद्यासु लक्षणम् । सारा श्रावकधर्मेषु देवपूजा तथा मता ॥१२१॥ युग्मम् ॥
काव्यम्- दौर्भाग्यं दीनभावं परगृहगमनं नैव विन्देत् कथञ्चिद्वैरूप्यं,
वा शरीरे न च भवति गतौ नैव शोकादिदुःखम् ।
नित्यं प्रोत्तुङ्गवंशे स भवति विभवी रूपलावण्ययुक्तो, यः कुर्याद्वीतरागे भगवति विनतः पूजनं भक्तियुक्तः ॥ १२२॥
१. नादिक० प्रत्यन्तरम् ।