SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ 5 10 151 20 25 १४] काव्यम् - अद्याचिन्त्यमहाफलेन फलितो मत्पुण्यकल्पद्रुमः, संसाराम्बुधिमज्जनाविकलितं सद्यानपात्रं मया । विद्याऽद्याम्बरगामिनी शिवपुरे गन्तुञ्च लब्धाऽथवा, सत्साधुर्यदयं तपःकृशवपुः प्राप्तो मदीये गृहे ॥११२॥ काव्यम्- हरत्यघं सम्प्रति हेतुरेष्यतः, शुभस्य पूर्वाचरितैः कृतं शुभैः । शरीरभाजां भवदीयदर्शनं, व्यनक्ति कालत्रितयेऽपि योग्यताम् ॥११३॥ [ धर्मकल्पद्रुमः नाभ्युत्थानक्रिया यत्र, नालापमधुरा गिरः । गुणदोषकथा नैव तस्य हर्म्ये न गम्यते ॥ ११४॥ जोऽपि सज्जने दृष्टे, जायते तोषनिर्भरः । उदिते विकसत्येव, शशाङ्के कुमुदाकरः ॥ १९५॥ अभ्युत्तिष्ठन्ति सन्तोऽपि सद्वृत्तागमने सति । सुधारुचि समायाते, यथा जलनिधिर्जलैः ॥ ११६॥ किन्तपोभिरपर्यन्तैः, किं दानैः कीर्तिडम्बरैः । किं वा जलभृतैस्तीर्थैर्दर्शने त्वादृशां सति ॥११७॥ एवं राज्ञा स्तुतः साधुः, प्रारेभे धर्म्मदेशनाम् । शृण्वन्ति श्रद्धया युक्ताः, सभासीना नृपादयः ॥११८॥ आरोग्यं भोगसम्पत्तिरवियोगः प्रियैः सह । अयोगो दुःखपङ्क्त्येति, स्वर्गलक्षणमक्षयम् ॥११९॥ कल्पद्रुरिव वृक्षेषु, विवेकः सुगुणेष्विव । ग्रहेष्विव दिवानाथो, ब्रह्मचर्यं व्रतेष्विव ॥१२०॥ धर्मेष्विव दयाधम्र्म्मो, यथा विद्यासु लक्षणम् । सारा श्रावकधर्मेषु देवपूजा तथा मता ॥१२१॥ युग्मम् ॥ काव्यम्- दौर्भाग्यं दीनभावं परगृहगमनं नैव विन्देत् कथञ्चिद्वैरूप्यं, वा शरीरे न च भवति गतौ नैव शोकादिदुःखम् । नित्यं प्रोत्तुङ्गवंशे स भवति विभवी रूपलावण्ययुक्तो, यः कुर्याद्वीतरागे भगवति विनतः पूजनं भक्तियुक्तः ॥ १२२॥ १. नादिक० प्रत्यन्तरम् ।
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy