________________
पञ्चमः पल्लवः ]
स्नात्वा सत्त्वात् महावह्नौ, रत्नपालनरेश्वरः । तव पुत्रीद्वयस्यापि भविष्यति वरो वरः ॥१००॥
युष्माकं कथ्यते तेन, न कार्यमसमञ्जसम् । कुर्व्वते रङ्गभङ्गं ये, ते हि मूढा दुराशयाः ॥१०१॥ अस्माकं रोचते चैष, वरैर्नान्यैः प्रयोजनम् । श्रुत्वैतत् खेचरा वाक्यं, मौनमाश्रित्य संस्थिताः ॥ १०२॥ वसुगन्धर्व्वभूपोऽथ, कन्याद्वययुतं वरम् ।
नीत्वा विद्याधरैः सार्धं, निजे राज्ये समागतः ॥१०३॥ विवाहस्योत्सवं तेन, पुनः कृत्वा नृपोऽथ सः । विद्याधरशतैर्युक्तः, प्रेषितो निजपत्तने ॥१०४॥ विवाहे यद्धनं लब्धं, तन्मध्यात् द्यूतकारिणे । ददौ षोडश लक्षाणि, दानशौण्डतया नृपः ॥ १०५ ॥ ये च विद्याधरास्तत्र, भूभुजा सार्धमागताः । तान्सन्तोष्य निजे स्थाने, विससर्ज नराधिपः ॥ १०६ ॥
भटानां कोटिभिर्युक्तः, खेचरैर्भूचरैर्नतः । रत्नपालो रराजोच्चैरहो पुण्यस्य वैभवम् ॥१०७||
अन्यदा स धराधीश, ईशलीलाविराजितः ।
सुरेन्द्र इव शोभाढ्यः, सभां सम्पूर्य संस्थितः ॥ १०८॥
तदा श्राद्धस्य तस्यैव, वन्दापनकृते कृती । सभायां व्योममार्गेण, चारणर्षिः समागतः ॥१०९॥
तदाऽऽसनात् समुत्थाय, निवेश्य मुनिमासने । विधिना तञ्च वन्दित्वा, भूपोऽवादीत् कृताञ्जलिः ॥११०॥ अद्य जातः कृतार्थोऽहं, सफलं मेऽद्य जीवितम् । पूर्व्वपुण्योदयो जातो, यज्जातं तव दर्शनम् ॥१९१॥
[ १७३
5
10
15
20