________________
[धर्मकल्पद्रुमः श्रीपाटलीपुरासन्ने, प्राच्यां दिशि महावने । वह्निकुण्डं ज्वलद्वह्नि, प्रचण्डं प्रकटीकुरु ॥८७।। तस्योपकण्ठमेते द्वे, प्रकुर्वन्त्यौ महातपः । वने तस्मिन् महाराज !, तव पुत्र्यौ निवेशय ॥८८।। मणीमन्त्रौषधादीनां, सान्निध्येन विना नरः । योऽग्नौ स्नास्यति सत्त्वेन, त्वत्पुत्र्योः स वरो मतः ॥८९।। एवं विज्ञमुखात् श्रुत्वा, नीत्वा चावां द्रुतं वने । तेनेदं निर्मितं कुण्डं, देवताधिष्ठितं वरम् ॥९०।। असौ विद्याधरः कश्चिदस्मत्प्राप्ति समीहते । झम्पां वह्नौ परं दातुमशक्तः सत्त्ववर्जितः ॥९१॥ तेनायां विकलो दीनो, जातो दिव्यानुभावतः । सत्त्वं विना कथं सिद्धिर्जन्तूनां जायते खलु ? ॥१२॥ ततो विद्याधरः कन्यावचः श्रुत्वेति लज्जितः । गतश्चाधोमुखीभूय, स्वस्थाने सिद्धिज्जितः ॥९३।। अथ सत्त्वनिधानं स, राजा श्रीरत्नपालकः । अदात् झम्पां सुवेगेन, वह्निकुण्डेऽपि दारुणे ॥९४।। सुधारससमं सत्त्वादग्निकुण्डं तदाऽभवत् । स्नात्वा तत्र नृपः कुण्डात् सिद्धकार्यो विनिर्गतः ॥९५।। तस्मिन्नवसरे ज्ञात्वा, वृत्तान्तं ज्ञानयोगतः । आगतस्तत्र वैताढ्यात् , वसुगन्धर्वखेचरः ॥९६।। कृत्वा सकलसामग्री, विवाहं सुतयोर्द्वयोः । सार्धं श्रीरत्नपालेन, चकार समहोत्सवम् ॥९७।। युग्मम् । विद्याधरेशा अपरेऽपि तत्रागता मिथस्ते विमृशन्ति कोपात् । न युक्तमेतत्परिणीतमेतत् , कन्याद्वयं भूचरभूभुजा यत् ॥९८॥ ऊचेऽथ वसुगन्धर्वः, श्रूयतां खेचराधिपाः ! । नैमित्तिकेन मे पूर्वमिदं ज्ञानेन भाषितम् ॥१९॥
15
25