________________
पञ्चमः पल्लवः ]
हे भद्रे ! के युवां नाय्र्यौ, वनस्थे नरसंयुते ? । मदग्रे निजवृत्तान्तः, कथ्यतां मेऽस्ति कौतुकम् ॥७४॥ धूर्त्ताकृतिं नरं दृष्ट्वा, न नार्यौ किञ्चिदूचतुः । तस्थतुर्मौनमाश्रित्य, कितवः प्राप नोत्तरम् ॥७५॥ ततो मार्गेण तेनात्मपदश्रेण्यनुसारतः । स्वस्थानं प्रति चलितः, सम्प्राप्तश्च निजं पुरम् ॥७६॥ सभायां कितवो गत्वा, रत्नपालनरेशितुः । कथयामास तां वार्त्तामपूर्व्वं कन्ययोर्द्वयोः ॥७७॥ अपूर्वं यो वदेद्वार्त्ती, स्वर्णलक्षं स भूपतिः । तस्मै दत्ते ततो हेमलक्षं द्यूतकृते ददौ ॥७८॥ अथ तेन समं राजा, कौतुकी तत्र कानने । ययौ च कन्यकायुग्मं दृष्ट्वा पप्रच्छ सादरम् ॥७९॥ वनस्थे के युवां नार्यो ? कोऽयं विकलमानवः ? | किमेतदग्निकुण्डञ्च, पार्श्वे यूयं कथं स्थिताः ? ||८०|| कथ्यतां निजवृत्तान्तो, ममास्ति कौतुकं महत् । राजाऽहं रत्नपालाह्वः, पाटलीपुरनायकः ॥ ८१ ॥ इत्थं पृष्टे नृपेणाथ, किञ्चिद् ध्यात्वा निजे हृदि । तयोरेकाऽवदत् कन्या, शृण्वस्माकं कथां नृप ! ॥८२॥ वैताढ्ये चोत्तरश्रेण्यां, विश्वावसुपुरे वरे । वसुगन्धर्व्वनामाऽस्ति, राजा खेचरनायकः ॥८३॥ सुरसेना प्रिया तस्य, शीलादिगुणशालिनी । देवसेना च गन्धर्व्वसेना च द्वे तयोः सुते ॥८४॥ ज्ञात्वा विवाहयोग्ये ते, पित्रा पृष्टो निमित्तवित् । मत्पुत्र्योः को वरो भावी ?, ज्ञानेन वद कोविद ! ॥८५॥ नैमित्तिकस्ततोऽवादीत् शृणु राजन् ! यथा वरः । यो भविष्यति ते पुत्र्योस्तथैव कथयाम्यहम् ॥८६॥
[ १७१
5
10
15
20
25