________________
१७]
[धर्मकल्पद्रुमः किं दुःसाध्यं सत्त्ववतां, दुस्तरो न महोदधिः । मेरुरुच्चैस्तरस्तावन्नारोहेद्यावदुद्यमी ॥६१॥ विवादं कुर्खतोरेवं, तयोर्माग्गे च गच्छतोः । जगाम सकला रात्रिरुदयं प्राप भास्करः ॥६२॥ सूर्यकान्त्या गतोद्योतो, दीपो घनवने क्वचित् । वञ्चयित्वा धूर्त्तदृष्टिमदृष्टी(श्यी)भूय संस्थितः ॥६३।। कितवोऽचिन्तयत् तावत् , यावद्दीपं ददर्श न । मामप्यहो वञ्चयित्वा, गतो गृहमणिः क्वचित् ॥६४॥ धूर्तोऽहं वञ्चितोऽनेन, सत्यञ्च स्ववचः कृतम् । सबला दैवती शक्तिर्लोकोक्तिरिति नान्यथा ॥६५॥ शिक्ककात् पतितो ह्योतुयूंथभ्रष्टो यथा मृगः । घातभ्रष्टो यथा शूरस्तालत्यक्तो यथा नटः ॥६६॥ च्युतः सत्पुरुषः स्यात् , शाखाभ्रष्टो यथा कपिः । यथा स्फालच्युतः सिंहः, कितवः खेदभाक् तथा ॥६७॥ युग्मम् ॥ सोऽचिन्तयत् तदा धूर्तोऽप्यहं दीपेन वञ्चितः । काकोऽपि वञ्च्यते केन, सत्या जातेति लोकवाक् ॥६८॥ निष्कास्य दीपपृष्ठे हि, दूरं नीत्वाऽत्र कानने । क्षिप्तोऽहं चण्डिकादेव्या, दत्तं निःशूकताफलम् ॥६९॥ दध्यौ दीपागमे चण्डी, मया वैरी विडम्बितः । तैलादानाद्यवज्ञां स, न करिष्यत्यतः परम् ॥७०॥ अथ द्यूतकरश्चिन्तापरस्तस्मिन् वने भ्रमन् । अग्निकुण्डं ज्वलद्दिव्यं, ददर्श क्वापि चित्रकृत् ॥७१।। दृष्टं तेन च तत्पार्वे, नारीयुग्मं मनोहरम् । नवयौवनसम्पन्नं, तर्जयत्रिदशस्त्रियः ॥७२॥ तदने तु नरो दृष्ट, एको विकलमूर्तिभाक् । दीनाननः कृशश्चित्रं, तद् दृष्ट्वा कितवोऽवदत् ॥७३॥
15
20
25