________________
10
पञ्चमः पल्लवः]
[१६९ विचार्यैवं ततो दीपपृष्टे लग्नः स निर्ययौ । दीपं प्रति जगादैवमरे त्वं क्व प्रयास्यसि ? ॥४८॥ यत्र यास्यसि तत्राहमागमिष्यामि पृष्ठतः । तव तैलं हि गृह्णामि, भोक्ष्ये पूपानहं ततः ॥४९॥ इत्थं वदन्नसौ दीपपृष्ठलग्नो ययौ द्रुतम् । यत्र यत्र वज्रेद् दीपस्तत्र तत्राप्ययं भ्रमेत् ॥५०॥ मुखे पुनर्वदत्येवं, तिष्ठ तिष्ठ प्रदीप भोः । कथं कातरवद्यासि, प्रणष्टस्तेजसान्वितः ॥५१॥ तदा देवीप्रभावेण, प्रोचे दीपोऽपि रे शृणु । किञ्चिन्मयाऽस्ति देयं ते, पृष्ठौ लग्नोऽसि किं मम ? ॥५२॥ रे कुमानुष ! रे धूर्त !, रूक्षान् भक्षय पूपकान् ।
अपि वाद्धितटे यामि, तैलं दास्यामि नो परम् ॥५३।। तदा द्यूतकरोऽवादीत् , भो भो गेहमणे ! शृणु । अहं स हि कपित्थो न, यो वातेन प्रपात्यते ॥५४॥ कूपपारापतो नाहं, मठपारापतोऽपि न । प्रतिच्छन्देन ये भीता, नश्यन्ति मठकूपतः ॥५५।। इति श्रुत्वाऽव्रजद् दीपः, क्षणं नैव प्रतीक्षते । कितवः पृष्ठसंलग्न:, शीघ्रगत्या चचाल च ॥५६॥ ततो दीपः पुनः प्रोचे, रे जनाचारवर्जित ! । मूर्ख ! नो वेत्सि किं नृणां, सत्त्वं देवैः समं भवेत् ? ॥५७॥ स्वसामर्थ्य विना वाद, यः कुर्यान्महता सह । स विनश्यति वेगेन, वदन्ति विबुधा इति ॥५८॥ पश्चाद्याहि ततोऽहं तु , यास्यामि किल सागरम् । तैलबिन्दं न दास्यामि, वथा भोः खिद्यसे कथम ? ||५९॥ कितवः स्माह रे दीप !, किं जल्पसि पुनः पुनः । तत्र तत्रागमिष्यामि, यत्र यत्र गमिष्यसि ॥६॥
20