________________
5
10
15
20
25
६]
[ धर्मकल्पद्रुमः
निःशूकोऽयमनर्थं हि करोति क्रियतेऽस्य किम् ? । ततो झटिति सा देवी, स्वरसज्ञामगोपयत् ॥३५॥ तदाऽथ मुदिता लोका, गतचिन्ताभयासुखाः । कितवञ्च प्रशंसन्ति, जने जातो जयारवः ॥ ३६॥ दत्तं दीनारलक्षं तत्कितवाय नैस्तदा । ततस्तद् द्यूतकारेण, व्यसनेन विनाशितम् ||३७|| यतः - वेश्यासक्तस्य चोरस्य, द्यूतकारस्य पापिनः ।
अन्यायोपार्जकस्यैव, पुंसो लक्ष्मीः स्थिरा न हि ॥३८॥ दिनेनैकेन तेनापि, लक्षं लब्धं विनाशितम् । द्यूतं वेश्या विवादश्च विपरीते विधौ खलु ॥३९॥ यतः- कौपीनवासा रजसाऽवकीर्णः, कपालपाणिर्विसान्नभोजी ।
द्यूतक्रियां चण्डिकयाहतो यः, स्यादीश्वर श्रीरहितोऽपि मत्त्र्त्यः ॥४०॥ कितवः पूर्वयुक्त्यैव, निश्यागत्य सुरीगृहे ।
भक्षयेत् सर्वदा पूपान्, ततो देवी व्यचिन्तयत् ॥४१॥ कथं निवारयाम्येनं, किं वोपायं करोम्यहम् । अग्रे विडम्बिताऽनेन, चिन्ता मे महती हृदि ॥४२॥ हुं ज्ञातं च मयोपायो, लब्धो दिव्यानुभावतः । अस्यागमनवेलायां, दीपो निष्कास्यते बहिः ||४३|| गते दीपे कुतस्तैलं, भयं चास्य भविष्यति । ध्यात्वैवं सा स्थिता यावत् तावत् कितव आगतः ॥४४॥ दीपं प्रति गतो यावत् तावद्दीपो विनिर्गतः । तदा चकितचित्तोऽयं कितवो हृद्यचिन्तयत् ॥४५॥ अहो दीपः कथं याति, गगने चन्द्रबिम्बवत् । मां वा भापयते देवी, किं भयं निर्भयस्य मे ? ॥४६॥
किन्तु मद्भयभीतोऽसौ, दीपो याति गृहाद्बहिः । रूक्षान् पूपान् कथं भुञ्जे, मत्तो दीपः क्व यास्यति ? ॥४७॥