________________
पञ्चमः पल्लवः ]
श्रुत्वा ते तादृशं वाक्यमसंभाव्यं हि मेनिरे । गत्वा व्यलोकयद्यावद् दुष्टं तत्कौतुकं तदा ॥२२॥ कथयन्ति स्म ते पौरा, इदं ह्यदृष्टपूर्वकम् । उत्पातो जायते लोके, विपरीते सति ध्रुवम् ॥२३॥ देवीवक्त्राद्बहिर्दृष्ट्वा, रसनामतिभीषणम् । नष्टा लोकाः क्षणात् केचिद्भीरवो भयविह्वलाः ॥२४॥ प्रधानपुरुषा ये च, नगरे येऽधिकारिणः । धीरास्तत्र स्थिता ऊचुर्देवीकोपोऽभवत् खलु ॥२५॥ शान्तिकं पौष्टिकं तेऽथ, जपजागरणादिकम् । चक्रुर्होमविधानञ्च, सर्वं जातं हि निष्फलम् ॥२६॥ यत्कृतं तेन निष्ठ्यूतं, तस्माज्जिह्वां न गोपयेत् । तत्कारणं न को वेत्ति, पुन: पौरा मिथोऽवदन् ॥२७॥ अहो उत्पात एषोऽत्र, दृश्यते सबलः खलु । अथ विघ्नस्य शान्त्यर्थं, वाद्यते डिण्डिमं पुरे ॥ २८ ॥ योऽत्र धीमान् पुमान् कोऽपि, सङ्गुप्तरसनां सुरीम् । करोति लक्षदीनारा, दीयन्ते तस्य निश्चितम् ॥२९॥ पटहोद्घोषणामेवं, श्रुत्वा द्यूतकृताऽमुना । स्पृष्टः पटह इत्युक्त्वा, रसज्ञां गोपयाम्यहम् ॥३०॥ जनैर्देव्यालये नीतो, द्वारं दत्त्वा स मध्यगः । देवीं प्रति जगादैवं, जिह्वां निष्कास्य किं स्थिता ? ॥ ३१ ॥ मत्कृतं नैव जानासि, कुर्व्वेऽहं तद्विलोकय । इत्युक्त्वा लोष्टमुत्पाट्य, दुष्टो देव्याः पुरोऽवदत् ॥३२॥ रण्डे चण्डे ! त्वमात्मानं, विडम्बयसि किं वृथा ? | जिह्वां गोपय मूर्तिं ते, चूर्णयाम्यन्यथाऽधुना ||३३|| इत्युदित्वा दृषत्खण्डं, तुण्डे यावद्विमुञ्चति । तावद्व्यचिन्तयच्चित्ते, सा प्रचण्डापि चण्डिका ॥३४॥
[ १६७
5
10
111
15
20
25