________________
5
10
15
20
25
१]
[ धर्मकल्पद्रुमः
द्वितीयं चरणं तस्या, देव्याः स्कन्धे विमुच्य सः । पूपानभक्षयद् दीपतैलेन सह निर्भयः ||९|| युग्मम् ॥ युक्त्याऽनया सदा भुङ्क्ते, स पूपान् तैलमिश्रितान् । तदा चण्डिकयाऽचिन्ति, दर्शयाम्यस्य वै भयम् ||१०|| विकास्य वदनं देवी, जिह्वां निष्कास्य च स्थिता । द्यूतकारस्तदा देव्याः, पूपखण्डं मुखेऽक्षिपत् ॥ ११॥ गिलित्वा तत्पुनर्द्देवी, तेनैव विधिना स्थिता । पुनर्ददौ पूपखण्डं, गिलित्वा सा तथा स्थिता ॥१२॥ रुष्टोऽवादीत् स रे रण्डे !, जिह्वां निष्कास्य किं स्थिता । त्वं दर्शयसि मे भीतिमहं तु भयवज्जितः ॥१३॥ द्विवारं पूपके दत्ते, जिह्वां क्षिपसि नो मुखे । लुब्धकेभ्यो जनेभ्यो हि, न दत्ते कोऽपि किञ्चन ॥१४॥
किं न श्रुतं त्वया पूर्व्वं, लोकोक्तं वचनं महत् । न संतोषं विना सौख्यं, दुःखं लौल्यं विना न हि ॥१५॥
अहं पूपं न दास्यामि, जिह्वां गोपय वा न वा । यदा नागोपयज्जिह्वां, तदोचे कितवः पुनः ||१६|| रे त्वं मे भोजने लुब्धा, पश्येदानीं ददामि यत् । निश्शूकेन ततो देव्या, जिह्वायां तेन थूत्कृतम् ॥१७॥ विलक्षाऽभूत् सुरी जिह्वां नापवित्रां मुखेऽक्षिपत् । लोकोक्तिरित्यभूत् सत्या, यद्देवाद् दानवो बली ॥१८॥ प्रभातमथ सञ्जातमागतश्चार्च्चकस्तदा ।
तथाभूतां सूरीं वीक्ष्याचिन्तयत् किमिदं नवम् ? ॥१९॥
प्रकृतेर्विकृतिश्चेत् स्यादेतदुत्पातकारणम् । बहिर्निष्कासिता जिह्वा, न भव्या चापि कौतुकम् ॥२०॥ कृत्वा दृढं कपाटं स, वलितः शीघ्रमर्चकः । नगरे नागराग्रे च, देवीवार्त्तं न्यवेदयत् ॥२१॥