________________
पञ्चमः पल्लवः ॥
SS तृष्णां छिन्धि भज क्षमां कुरु दयां पापे रतिं मा कृथा, सत्यं ब्रूह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनान् । मान्यान्मानय विद्विषोऽप्यनुनय प्रच्छादय स्वान् गुणान्, कीर्त्ति पालय दुःस्थिते कुरु दयामेतत्सतां चेष्टितम् ॥१॥ शीलं दुर्गतियायिनामशकुनः शीलं सुभोगाङ्कुरः, शीलं कामशुकस्य पञ्जरनिभं शीलं भवोष्माम्बुदः । शीलं जन्मसरोविभूषणपयोदजाली श्रियामास्पदं, पाल्यं शीलमिदं गुणम्बुधिसमुल्लासेन्दुबिम्बोपमम् ॥२॥ अथ तत्र पुरे कोऽपि, कितवः कृपयोज्झितः । सत्यशौचविरक्तोऽभूद्रक्तः कपटकोटिषु ॥३॥ नामतो नरवञ्चाख्यो, रमन् द्यूतं दिने दिने । लक्षद्रव्यं जयत्येष, लोभतो रमते सदा ॥४॥ स कदा हारयेन्नैव, दैवतो वर ईदृशः । कदापि हारयेत् किञ्चित्, तद्द्रम्मांशं तृतीयकम् ॥५॥ स पुनर्व्यसनासक्तो, वेश्यागेहेषु तद्धनम् । मूढो निर्गमयत्युच्चैः, स्वेच्छया च पिबेत् सुराम् ॥६॥ नित्यं मद्यकृतां कुट्यां, पाकं निष्पाद्य पूपकान् । लात्वा च चण्डिकागेहे, याति रात्रिसमागमे ॥७॥ सा चण्डी रौद्ररूपा च, दुर्निरीक्ष्या दुराशया । तस्या अङ्के स निःशूकः, पादं विन्यस्य पापधीः ॥८॥
5
10
15
20