________________
१४]
[धर्मकल्पद्रुमः काव्यम्- लक्ष्मीर्दानविवेकसङ्गममयी श्रद्धामयं मानसम् ,
धर्मः क्षान्तिदयामयः सुचरितश्रेणीमयं जीवितम् । बुद्धिः शास्त्रमयी सुधारसमयं वाग्वैभवोज्जृम्भितम् , व्यापारश्च परार्थसाधनमयः पुण्यैः परं प्राप्यते ॥४५६॥ इत्थं नृपैः सेवितपादपद्मः, करोति राज्यं प्रबलं स्वपुण्यात् । श्रीरत्नपालो नरनायकोऽयं, सत्तेजसा राजति रत्नवत् यः ॥४५७।। इति श्रीवीरदेशनायां श्रीधर्मकल्पद्रुमे चतुःशाखिके द्वितीयशीलशाखायां श्रीरत्नपालशृङ्गारसुन्दर्याख्याने
चतुर्थः पल्लवः समाप्तः ॥४॥