________________
10
चतुर्थः पल्लवः]
[१६३ सर्वे तिलकमाहात्म्यात् , निजाज्ञापालकाः कृताः । सुगन्धवल्लभेनाशु , विधिना स विवाहितः ॥४४३॥ हेमाङ्गदेन दत्तास्तास्तस्मै विद्याश्च षोडश । रोहिणीप्रमुखास्तेन, साधिताः स्वल्पवासरैः ॥४४४।। वैताढ्ये चोभयश्रेण्योर्जिताः सर्वेऽपि खेचराः । महाबलसुते द्वे ते, तथा सौभाग्यमञ्जरी ॥४४५।। एवं पत्नीत्रयं नीत्वा, स विद्याधरसेवितः ।
दिव्यं विमानमारुह्य, सम्प्राप्तः स्वपुरं ततः ॥४४६।। युग्मम् । काव्यम्- पुरप्रवेशो महतोत्सवेन, मन्त्र्यादिभिः कारित ईश्वरस्य ।
गायन्ति रामा निजगेहगेहे, प्रभौ समेते त्रिवधूयुतेऽस्मिन् ॥४४७॥ प्रियाभिः सह सेवे स (सेवते साकं), स्वर्गभोगसमं सुखम् ।
निरातङ्कं निजं राज्यं, पालयामास धर्मयुक् ॥४४८॥ काव्यम्- अथान्वहं तस्य नृपस्य हेम्नो, व्ययो भवेत् यः परिकीर्त्यते सः ।
कथामपूर्वां सरसां वदेद्यः, स लक्षमेकं लभते सुवर्णम् ॥४४९॥ गजाश्ववृषभोष्ट्राद्या, दुकूलचीवराण्यपि । दीयते(न्ते) प्रत्यहं ते(स्वे)षां, द्वात्रिंशल्लक्षकाञ्चनम् ॥४५०॥ प्रत्यहं पुण्यकार्येषु , सप्तक्षेत्रेषु भावतः । दक्षो विंशतिलक्षाणि, वपति स्म महामनाः ॥४५१॥ सेवायां चागता भूपाः, सचिवा ये पुरोहिताः । तेभ्यो लक्षाणि दीयन्ते, षट्त्रिंशत्तेन दानिना ॥४५२।। आर्ते दीने निराधारे, कुब्जान्धेषु च रोगिषु । सदैकादश लक्षाणि, दीयन्ते चानुकम्पया ॥४५३।। इत्थं नित्यं ददौ भूपः स्वर्णकोटी स्वभावतः । प्रत्यहं प्राप्यते हेम, रसाल्लोहस्य वेधतः ॥४५४।। आदेशो भूभुजा दत्तः, कोशाधीशस्य निश्चितम् । स्वर्णं यत्नात् त्वया कार्य प्रष्टव्यो न कदाप्यहम् ॥४५५।।
15
25