________________
[धर्मकल्पद्रुमः तस्या जिनालयेऽन्येधुर्वने क्वापि निशाभरे । सखीभिः सह नृत्यन्त्याः , पतितं वलयं करात् ॥४३०॥ तद्विना सा महादुःखात् सरसाहरवर्जिता । आचाम्लनिर्विकृत्यादितपसाङ्गं कृशं व्यधात् ॥४३१।। पृष्टो नैमित्तिको राज्ञा, वलयं क्व चटिष्यति ? । तेनोक्तं त्वं नराधीश !, सत्यं शृणु वचो मम ॥४३२।। नरो वलयहर्ता स, तव पुत्र्याः स्वयंवरे । मण्डपे मण्डलाधीशः, स्वयमेवागमिष्यति ॥४३३॥ विवाहं चापि ते पुत्र्या:, करिष्यति न संशयः । इत्थं ज्ञानिवचः श्रुत्वा, कृतो राज्ञा स्वयंवरः ॥४३४॥ आहूताः खेचराः सर्वे, स्वयंवरणमण्डपे । सुगन्धवल्लभेनाथाकारितश्च महाबलः ॥४३५।। सम्प्राप्तः सोऽपि वेगेन, रत्नपालसमन्वितः । वलयाऽलङ्कृतं रत्नपालं कन्या ददर्श सा ॥४३६।। निजनामाङ्कितं दृष्ट्वा, वलयं स वृतो वरः । उपलक्ष्य रत्नपालं, हृष्टा हेमाङ्गदादयः ॥४३७।। तदाऽन्ये खेचराः सर्वे, मिथस्ते व्यमृशन्निति । पश्यतां खेचरौघानां, खेचर्या भूचरो वृतः ॥४३८।। अयुक्तमेतदत्राभूज्जलोत्तारस्तु नोऽभवत् । यदेषोऽस्मासु पश्यत्सु , भूचरः परिणेष्यति ॥४३९॥ एवं विमृश्य सम्भूय, तेऽथ सर्वे रुषारुणाः । जाता युद्धाय सन्नद्धा, रत्नपालं बभाषिरे ॥४४०।। अरे अज्ञान बालस्त्वं तव काल: समागतः । भवता भूमिचारेण, वृता विद्याधरी कथम् ? ॥४४१।। तदाशु रत्नपालेन, रसेन तिलकं कृतम् । युध्यमाना जिताः सर्वे, भटाश्च खेचराधिपाः ॥४४२॥
25