________________
चतुर्थः पल्लवः]
[१६१ अथोत्पत्तिं प्रभावञ्च, रसस्यास्य सुहृच्छृणु । अनेन नागिलेनैव, साधितो मन्त्र उत्तमः ॥४१७।। चतुर्विंशतिवर्षाणि, कन्दमूलफलानि च । कृत्वाहारमधोवक्त्रो, धूमपानाज्जजाप तम् ॥४१८॥ बलिहोमादिके सृष्टे, धरणेन्द्रो ददौ रसम् । एतस्य बिन्दुमात्रेण, लोहं भवति काञ्चनम् ॥४१९।। सर्वा बाधाः प्रशाम्यन्ति, कुष्ठी स्याद् दिव्यरूपभाक् । मूच्छिताश्च मृता ये च, ते जीवन्ति क्षणादपि ॥४२०॥ भूतादयो दुष्टदेवा, ग्रहनक्षत्रतारकाः । ते सर्वे वशमायान्ति, रसस्पर्शप्रभावतः ॥४२१॥ प्रशाम्यति महानग्निविषे स्थावरजङ्गमे । व्याधयो रसछट्टाभिर्यान्ति सर्वं वशीभवेत् ॥४२२।। कृते तिलकमात्रेऽपि, रसेन रणभूमिषु । शत्रवो मित्रतां यान्ति, शान्ताः स्युः सिंहहस्तिनः ॥४२३।। इत्यादि बहुधा ज्ञेयः, सप्रभावो महारसः । पूर्वपुण्यैस्त्वया प्राप्तो, मया दत्तश्च गृह्यताम् ॥४२४।। स्मर्त्तव्यः समये चाहमित्युक्त्वा स तिरोदधे । दृष्ट्वा सुरस्य सान्निध्यं, चमच्चक्रे महाबलः ॥४२५।। विमाने स्वसुतायुग्मं, नृपं चारोप्य खेचरः । गतो वेगेन वैताढ्ये, सुते द्वे स विवाहितः ॥४२६।। श्रीरत्नपालो नृपतिः स धन्यः, कन्याद्वयं तत्परिणीय तत्र । स्थितो महासौख्यभरं बुभोज, विद्याधरैः सेवितपादपद्मः ॥४२७।। तदा श्रीगगनपुरे, राजा सौगन्धवल्लभः । हेमाङ्गदोऽस्य पुत्रोऽस्ति, सुता सौभाग्यमञ्जरी ॥४२८॥ सा च यौवनसम्पन्ना, निष्पन्ना नरमोहना । कुलदेवी ददौ तस्यै, वलयं सर्वकामदम् ॥४२९।।
20
25