________________
[धर्मकल्पद्रुमः अत्रान्तरे स विद्याभृद् , हर्षपूरितमानसः । लात्वा विवाहसामग्री, यावत् तत्रागतो द्रुतम् ॥४०४॥ तावता हस्तिना तेन, तत्रागत्य स खेचरः । गृहीतः शुण्डयाऽऽकाशे, स चोत्पपात लीलया ॥४०५।। पातयित्वा कराद् भूमौ, दन्तघातैः स पीडितः । एवं व्यापादितः कष्टं, गजराजेन नागिलः ॥४०६।। अस्मिन्नवसरे पुत्रीशुद्धिकर्व्वन् महाबलः । तत्र भ्रमभ्रमन्नागात् पुत्र्यौ द्वे ते ददर्श च ॥४०७|| स्वपुत्रीसंयुतं रत्नपालं दृष्ट्वा जहर्ष सः । ऊचे च मधुरां वाणी, शृणु सात्त्विकशेखर ॥४०८।। पुरैकदा मया पृष्ट, एको नैमित्तिको वरः । मत्पुत्र्योः को वरो भावी ? तेनेदं कथितं वचः ॥४०९॥ नागिलो दुष्टविद्याभृत् , हरिष्यति सुताद्वयम् । विद्यया भस्मसात्कृत्वा, रसान्नार्यो करिष्यति ॥४१०।। तत्रैकदा रत्नपाल, आगत्य रसबिन्दुभिः । तद्भस्मोपरिपतितैमूर्तिमत्यौ करिष्यति ॥४११।। त्वत्पुत्र्योः स वरो भावी, यस्य सान्निध्यकृत्सुरः । स देवो गजरूपेण, हनिष्यति च नागिलम् ॥४१२॥ नैमित्तिकस्य वाण्येषा, सत्या जाताऽद्य दृश्यते । इदं विमानमारुह्य वैताढ्यं प्रति चल्यताम ॥४१३।। आरोहिति नृपो यावत् तावत् स श्राद्धदेवता । प्रादुर्भूतोऽमिलद्राज्ञः, प्रोचे च शृणु भूपते ! ॥४१४॥ अस्य कन्याद्वयस्यापि, तव सम्प्राप्तिहेतवे । गजरूपं वने कृत्वाऽत्रानीतोऽसि मयाम्बरे ॥४१५।। घातितः स मया चैव, हस्तिरूपेण नागिलः । हितकारी तवैवाहं, यत्पूर्वं पालितस्त्वया ॥४१६।।