________________
[१५९
___ 10
चतुर्थः पल्लवः]
तदने कुम्पकश्चैको, गजदन्तेऽवलम्बितः । दृष्टो रसभृतो राज्ञा, हृदि चैवं व्यचिन्तयत् ॥३९१।। उत्तमं दिव्यसौधं किं, कोऽसौ वा रसकुम्पकः । भस्मपुञ्जौ च कावेतौ ? कौतुकं दृश्यते महत् ॥३९२॥ कौतुकाद्रसबिन्दून् स, करे कृत्वा व्यलोकयत् । पतिता बिन्दवस्तावद्भस्मपुञ्जद्वयोपरि ॥३९३॥ भस्मपुञ्जद्वयोत्पन्ने, दिव्यरूपधरे स्त्रियौ । तदा दृष्ट्वा नृपः प्रोचे, के युवां भस्मसम्भवे ? ॥३९४॥ किं शक्ती स्वयमुत्पन्ने, किङ्किन्नौँ च देवते । खेचौं किञ्च भूचर्यो, नार्यो किङ्कथ्यतामृतम् ? ॥३९५।। तयोरेकाऽवदत् स्वामिन्नस्मद्वार्ता विनोदिनीम् । शृणु श्रुत्वा यथा याति, संशयस्तव चेतसः ॥३९६।। वैताढ्ये वरचन्द्रायां, पुर्यां स्वामी महाबलः । विद्याधरप्रिया प्रेमवत्येतयोः सुते उभे ॥३९७।। पत्रवल्ली-मोहवल्लीसंज्ञके ते उभे अपि । तातेन पाठिते ताभ्यां, सम्प्राप्तं यौवनं क्रमात् ॥३९८।। आवां ते नागिलेनाथ, खेचरेण दुरात्मना । हृत्वाऽत्र द्रुतमानीते, कृतं सौधन्तु विद्यया ॥३९९।। यदि क्वापि बहिर्याति, तदावां भस्मसात्करेत् (?) । आगतो रससेकेन, पुनः सज्जीकरोति सः ॥४००। अस्मत्स्वरूपमेवं ते, कथितं हे नरोत्तम ! । पूर्वपुण्यानुभावेनास्माकञ्च तव दर्शनम् ॥४०१॥ अथ तेषां मिथो जातोऽनुरागः स्नेहवार्त्तया ।
प्रायः प्राग्भवसम्बन्धो मनोमोहनकारणम् ॥४०२॥ यतः- ए नयणां जाइ सरइ, पुव्वभव समरान्त ।
अप्पिय दिट्ठइ, मुह लीयइ, पिय दिइ विहसन्त ॥४०३॥
20
25