________________
[धर्मकल्पद्रुमः देवो मित्रमभूत् ततोऽस्य बलतः कुर्वन्ति सेवां नृपा, अन्येऽपि प्रबलास्तदा हि मिलिता लोका इति प्रोचिरे ॥३७८॥ हृष्टचित्ता तदा जाता, सती शृङ्गारसुन्दरी । महातपः प्रकुर्वन्ती, दृढा ब्रह्मव्रते निजे ॥३७९।। पतिं दृष्ट्वा तया चक्रे, विकृत्यादेः सुपारणम् । सुशृङ्गारा पुनः पट्टराज्ञी सा स्थापिता सती ॥३८०॥ देवसान्निध्यतो राज्ञाप्यनम्राः सर्वभूभुजः । नामिता निजपादाग्रे, चक्रे राज्यं त्वकण्टकम् ॥३८१।। सुवर्णरत्नकोटीनां, शतसप्तकसङ्ख्यया । नृपगेहेऽकरोद् देवो, वृष्टिं पुण्यात् सुरा वशाः ॥३८२।। इत्थमेकातपत्रत्वं, प्राज्यं राज्यं प्रपालय । एवं राज्ञे वरं दत्त्वा, देवो देवालयं ययौ ॥३८३।। रत्नपालनरेन्द्रोऽथ, पूर्वपुण्यानुभावतः । इन्द्रराज्यसमं राज्यं, पालयमास धर्मधीः ॥३८४।। एकदा च सभासीनो, राजा केन नरेण तु । विज्ञप्तो विनयाद् देवागतोऽस्त्येको गजो वने ॥३८५।। प्रेषिताः सुभटा राज्ञा, यत्रास्ति वनवारणः । गृहीत्वा गजराजस्तैढौंकितो नृपतेः पुरः ॥३८६।। ततो राजा गजारूढो, ययौ यावद्वनं प्रति । तावता व्योममार्गेणोत्पपात नृपयुग्गजः ॥३८७|| न तिष्ठति करी क्वापि, व्योम्नि दूरे गतः कियत् । तदा चिन्तातुरो भूपोऽपतत् क्वापि सरोवरे ॥३८८।। जलमुत्तीर्य सेतौ स, गतोऽग्रे तावदीक्षितम् । हेमरत्नमयं सौधं, साश्चर्यं च सुतोरणम् ॥३८९॥ विनोदाय गतो मध्ये, सुसौधे सप्तभूमिके । तत्र चन्द्रशालायां द्वौ, भस्मपुञ्जौ ददर्श सः ॥३९०।।