________________
10
चतुर्थः पल्लवः]
[१५७ निद्रया घुम्मितान् दृष्ट्वा, स्वभटान् प्रबलानपि । रत्नपालोऽपि भूपालस्तदा चिन्तातुरोऽभवत् ॥३६६।। इतश्चाराधना यस्य, राज्ञा दत्ता पुरा वने । स वृद्धश्रावको मृत्वा, समुत्पन्नः सुरालये ॥३६७।। सोऽवधिज्ञानतो ज्ञात्वा, राज्ञश्चिन्तां समागतः । प्रकटीभूय चावादीद् वेत्सि मां रत्नपाल ! भोः ॥३६८॥ रत्नपालः सचिन्तत्वाददृष्टसुरदर्शनात् । नोपलक्षति तं तेन, न किञ्चिदुत्तरं ददौ ॥३६९।। कृत्वा श्रावकरूपं तद्देवः प्रोचेऽथ मित्र किम् । उपलक्षसि मां वा नोपलक्ष्योचे नृपस्तदा ॥३७०।। हुं ज्ञातं त्वं मया पूर्वं, ग्लानत्वे प्रतिपालितः । श्राद्धमित्रं भवान् दृष्टो, देवरूपोऽद्य पुण्यतः ॥३७१।। तस्य देवस्य माहात्म्यान्नष्टा निद्राऽखिला क्षणात् । भटाः सर्वे प्रबुद्धास्ते, जाता युद्धाय सोद्यमाः ॥३७२।। युध्यमानो हतो मृत्वा, जयोऽगात् सप्तमावनौ । ततश्च्युत्वाऽभवत् सर्पः, पञ्चमीमगमत् पुनः ॥३७३।। तेन भूरिभवेष्वेवं, भुक्तं पापफलं महत् । प्रायः क्षिपति पापात्मा, कष्टतः कर्मसञ्चयम् ॥३७४॥ रत्नपालोऽथ भूपालः, कृपालुः सज्जने जने । प्रविवेश प्रहर्षेण, पाटलीपुरपत्तने ॥३७५॥ आकार्यमाणा नवतूर्यनादैर्नार्यः स्वकार्यं सकलं विमुच्य । महीन्द्रमालोकयितुं विलोला, जालान्तरालाभिमुखं प्रचेलुः ॥३७६।। रवेरुपरि किन्तेजो, वायोरुपरि को बली ।
मोक्षस्योपरि किं सौख्यं, कश्च शूरस्तवोपरि ॥३७७॥ यतः- पुण्यं पूर्वकृतं पुनः प्रकटितं जातं जगन्मङ्गलम् ,
25 स्वं राज्यं स्वबलेन वालितमहो ध्वस्तो जयो येन च ।