________________
१६
[धर्मकल्पद्रुमः ततो जिनालये राजा, प्रविश्य विधिवज्जिनम् । ___ ववन्दे परया भक्त्या, स्तुतिमेवञ्चकार च ॥३५४॥ "विमुक्ता( च्या )खिलसङ्कल्पमेकतानतया स्थितः । सद्ध्यानपरमानन्द, नमस्तेऽस्तु जिनेश्वर ॥३५५॥ केवलादर्शसङ्क्रान्तलोकालोकविलोकन । देव ! तुभ्यं नमस्तस्मै, कस्मैचित् परमात्मने ॥३५६॥ प्रसीद कुरु वात्सल्यमनुकम्पा विधेहि मे ।
येन शाम्यन्ति दुर्वाराः, सद्यो भावमहारुजः ॥३५७॥ काव्यम्- ये दारिद्र्योपहतवपुषो ये च दौर्भाग्यदग्धा,
ये वा शत्रुव्यसनविकला ये च मूर्खत्वतप्ताः । ये वा केचिज्जिनवर ! भृशं पीडिता दुःखभारैस्तेषामेकस्त्वमसि शरणं तर्षितानामिवाम्भः" ॥३५८॥ इत्थं स्तुत्वा जगन्नाथमादिनाथं जिनेश्वरम् । मन्यमानः सनाथं स्वं, वलितो नृपतिर्यदा ॥३५९।। सौभाग्यमञ्जरीनामसंयुतं वलयं तदा । दृष्ट्वेकं मण्डपे राजा, गृहीत्वा कटके ययौ ॥३६०॥ सौभाग्यमञ्जरी कासौ, लब्धं यद्वलयं मया । एवं चिन्तयतो राज्ञो, विभाता यामिनी चिरात् ॥३६१॥ प्रातश्चचाल सेनायुक्, स्वदेशान्तर्गतो रयात् ।। जयस्य प्रेषितो दूतः, पाटलीपुरपत्तने ॥३६२॥ तेनोक्तं हे जयामात्य ! तव स्वामी समागतः । त्वं गत्वा सम्मुखो राज्यढौकनेन भजस्व तम् ॥३६३।। क्रोधी मानी जयोऽवादीत् , कः स्वामी कस्तु सेवकः । वीरभोग्या धरेत्युक्त्वा ययौ युद्धाय सम्मुखः ॥३६४॥ जातं युद्धं तयो|रं, भग्नं सैन्यं जयस्य च । क्षुद्रचित्तो जयोऽमुञ्चन्निद्रामस्वापिनीं ततः ॥३६५।।
20
25